________________
श्रीजैनस्तोत्रसन्दोहे. [ श्रोरत्नशेखरसूरि
...... [.२२ ] श्रीचारूपमण्डनपार्श्वजिनस्तवनम् । श्रोचारूपपुरप्रधानवसुधालङ्कारचूडामणि
प्रायं स्फारफणामणिद्युतिभरैराभासिताशामुखम् । कल्पक्षोगिरुहातिशेशववयःपत्रालिवित्रासकृत्-...
कायच्छायमहं स्तवीमि मुदितः श्रीपार्श्वविश्वेश्वरम् ॥ १ ॥ अतुल्यकल्याणलसल्लतानामारोढुमूर्व तव मूर्धसंस्थाः। .... जगत्प्रभो ! स्फारफणाः श्रयन्ते श्रियं सदा माण्डपिकीमखण्डाम् ॥२॥ अङ्के शिरोऽग्रे च भुजङ्गधारी दृष्टोऽपि दुर्दोषविषापहारी। एकातपत्रो भुवने नरेन्द्रस्त्वमेव नम्रामरमानवेन्द्रः ॥ ३॥ धर्मोपदेशे फणनिःसपत्नरत्नोश्रमिश्रीकृतकृष्णकान्तिः । . गर्जस्तडित्वानिव देव ! दत्से मुदं न केषाममृतार्थिनां त्वम् ।। ४ ।। फणामणीनां तव देव ! दीप्रतरा धुतो व्योमनि विस्फुरन्त्यः । राजन्ति रेषा इव काञ्चनस्य कषोपले जात्यतरस्य दत्ताः ॥ ५ ॥ तव प्रभो ! रफारफणा भुजङ्गाः स्फुरन्मणिश्रेणिरुचारुणाङ्गाः । तथा दशन्त्यान्तरवैरिवारं यथा प्रतीकारकथा पुनर्न ॥६॥ सत्कज्जलश्यामलतां वहन्ती फणानणोयोमणिभिर्विभान्ती। दीपालिकारात्रिरिव प्रदीप्रदीपाऽस्तु मूर्तिस्तव हर्षहेतुः ॥ ७॥ फणोग्रजाग्रन्मणिराजिराजमानेन्द्रनीलामलनीलकायः । । सत्पुष्पभृत् पत्रलहेमपुष्पमहीरुहौपम्यमशिश्रियस्त्वम् ॥ ८॥ विभिद्य माद्यदुरपोहमोहमहान्धकारं प्रकटानि कुर्युः । सप्तापि तत्त्वानि विभो ! फणाग्रजाग्रत्तमास्ते मणिदीप्रदीपाः ॥९॥