________________
VAAAAAVA
श्रीजैनस्तोत्रसन्दोहे [ श्रीअजितसिंह
[१४] श्रीअजितसिंहाचार्यविरचितं
'अट्टे मट्टे' मन्त्रगर्भितम् श्रीपार्श्वनाथस्तोत्रम् ।
ॐ नमो भगवते श्रीपार्श्वनाथाय ही प्रगे।
धरणेन्द्रपद्मावतोसहिताय सदा श्रिये ॥१॥ अट्टे मट्टे तथा क्षुद्रविघट्टे क्षुद्रमेव हि ।।
— स्तम्भय स्तम्भय क्षुद्रान् स्वाहान्तै रेभिरक्ष रैः ॥ २॥ पद्ममष्टदलोपेतं मायाकं जिनलाञ्छितम् ।
__पद्ममध्यान्तरालेषु पत्रोपरि यथाक्रमम् ॥ ३॥ अष्टौ अष्टौ तथैवाष्टौ विन्यस्याक्षरमण्डलम् ।
तत्राष्टशतजापेन ज्वरमेकान्तरादिकम् ॥ ४ ॥ रिपुचौरमहीपालशाकिनोभूतसम्भवाम् ।
अरण्यदेहिजां भीति हन्ति बद्धं भुजादिषु ॥ ५ ॥ पुष्पमालां जपित्वा च मन्त्रेणोष्टशताधिकम् ।
प्रक्षिप्ता पात्रकण्ठेषु भूतादीन् स्तम्भयेद् ध्रुवम् ॥६॥ गुग्गुलस्य गुटीनां च शतमष्टोत्तरं हुतम् ।।
. दुष्टमुच्चाटयेत सद्यः शान्ति च कुरुते गृहे ॥ ७ ॥ देवस्याजितसिंहस्य नीलवर्णस्य संस्तवात् ।
लभन्ते श्रेयी सिद्धि कवयो वाञ्छतैः सह ॥८॥