SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ विरचितम् ] श्रीपार्श्वनाथस्तोत्रम् । ग्रहदुःस्थसुस्थजननं सर्वविषोच्छेदनं प्रशान्तिकरम् । प्रध्वस्तदुरितनिचयं पाश्च योगीश्वरं वन्दे ॥ ३६ ॥ इति मालामन्त्रपदैरभिष्टुतं यः स्मरेत् त्रिसन्ध्यमपि । स करोति नागक्रीडां शिव इव विषवेदनातीतः ॥ ३७॥ भक्तिर्जिनेश्वरे यस्य गन्धमाल्यानुलेपनैः । सम्पूजयति यश्चैनं तस्यैतत् सफलं भवेत् ॥ ३८ ॥ इति श्रीपार्श्वनाथस्तोत्रम् । लि० राजविजयसूरिशिष्य...विजयेन स्वपठनार्थम् । शुभं भवतु ॥ वृत्तिः । स्तवोपसंहारमाहप्रहदुःस्थ० अन्त्यमालमेतत् । पावनाम्ना तीर्थकरम् । योगो-ध्यानाभ्यामो विद्यते येषां ते योगिन:साधवस्तेषामोशः-स्वामी तमहं वन्दे। कथम्भूतम् ! ग्रहैः दुःस्थं-प्रहदु स्थं प्रहकता या पीडा तदपनोदनेन सुस्थजननम् । स्थावरजङ्गमविषस्य च्छेदन-विनाशनम् । प्रकर्षण शान्तिकरं इत्यर्थः । ध्वस्तदुरितसङ्घातं पाश्व वन्दे । इति ॥३६॥ तत्प्रणामादैहिकं फलं भूयो दर्शयतिइति मालामन्त्रपदः० इति-अनेन प्रकारेण मालामन्त्रपदैः मालारूपतया व्यवस्थितमन्त्रबीजैराभिमुख्येन स्तुतं पार्श्वजिन यः पुरुषः स्मरयेत्-ध्यायेत् त्रिसन्ध्यम्। अपिशब्दात् भक्त्या स एवम्भूतो नागक्रीडां करोति । शिव इव-महादेव इस विषवेदनोज्झितः इति । शिवनागयोः संशब्दनादात्माभिधानं कर्ता सूचयति ॥३७॥ - भक्तिरित्यादि-यस्य जिनेश्वरे-पार्श्वनाथे भक्तिरस्ति. वस्त्रगन्धमास्यनुलेपनद्रव्यतः सम् – एकीभावेन पूजयति भावपुष्पैरेनं पार्श्वजिनं तस्यैत. न्मन्त्रस्तवनं सफल-साथकं भवेत्-भवन ति ॥ ३८ ॥ इति पाजिनस्तवनटीका। लिखिता सं. १५२३ वर्षे वैशाख शुदि २ दिने पं० सहर्षगणि. शिष्येण गन्धारम(ब)न्दिरे ॥ श्रीधरणारगेन्द्रस्तवनटीका समाप्तेति ॥
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy