________________
-
श्रीजैनस्तोत्रसन्दोहे [ श्रीशिवनागदैत्योपसर्गभीषणजलधरधारा' विधौतकर्ममल ! । सर्वज्ञ ! नागवन्दित ! सर्वविषाक्षेपण ! नमस्ते ॥ १३ ॥
वृत्तिः .. दैत्योपसर्ग०--दैत्येभ्य उपसर्गस्तेन भीषणजलधरधारात्मकेन २विशेषेण धौतः कर्ममलो यस्य स तथा, तस्यामन्त्रणम् । हे सर्वज्ञ !, नागवन्दित !, हे सर्वेषां विषाणां आक्षेपण ! ते-तुभ्यं नमो भवत्विति । अस्यां चक्ररूपतायां भगवनमस्कारः सूचितः ।।
नष्टाज्ञान ! नयस्थान! नलिनानन ! सुस्वन !। नम्योऽयान! न संस्थान ! न त्वं केन नमो जिन ! ॥
[षष्ठं यन्त्रम् अष्टदलकमलम् ६ ] कथम् ? सर्वज्ञभणनानष्टाज्ञान इति । यत एव नष्टाज्ञान अत एव नैगमादिनयस्थान ! । उपसर्गभणनात् संस्थानं सूचयति । तत्र हे नलि. नानन !-विकसितपद्ममुख ! । जलघरोचारणात् हे सुस्वन ! नम्यस्त्वं न केन ? अपि तु सर्वेणापि । अतो हे जिन ! नमो भवते । धौतकर्ममल. त्वात् अयान !-वाहनरहित ! न संस्थान !-व्यपगतरूप ! इति ॥
सङ्ग्रह कण्डकं चैव स्तोभो मण्डलकं तथा ।
स्तम्भो निर्विषसङ्क्रामं अर्द्धनारीश्वरं. विदुः ॥ ॐ ह्री लाह्वा पलक्ष्मी स्वा स्वाहा । सङ्ग्रहः पूर्वोक्त एव ।
ॐ क्षा क्षी क्ष क्ष क्षः कण्ड कबन्धः ।
ॐ ह्रा ही है है ह्रः स्तोमः । ॐ भूरिसी भूतधात्री विचित्रवर्णैरलङ्कृते! स्वाहा । मण्डलप्रोक्षणम् । ॐ यः यः यः पक्षि हुँ क्षं यः । स्तम्भः ।
ॐ पक्षि यः यः यः स्वाहा । निर्विषीकरणम् । १ °धारानिपातधौत° ग-घ। २ °विविध° ग-घ।