________________
विरचितम् ]
श्रीपार्श्वनाथस्तोत्रम् ।
सकलभुवनाभिवन्दित ! गरुडस्त्वं पन्नगेन्द्रकृतपूज!। विषमविषानलशमनो जलद इव जलप्लुतालोकः ॥ १२ ॥
वृत्तिः । भाद्यन्तस्थो विपतिर्भगवन्नामान्तरेषु हूं न्यासः । न्यस्तो हस्तेऽपविषं करोति नागात्मकजलेन ॥ [ पञ्चमं यन्त्रम् ५ ]
ॐ पार्श्वनाथ हूँ स्वाहा । अस्यैव मूलमन्त्रस्य हूँकारं न्यसेत् विशेष इति ॥ ११ ॥
___ सकल० हे भगवन् ! सकलभुवनाभिवन्दित ! पन्नगेन्द्रकृतपूज ! गरुडस्त्वं वर्तसे । कथम् ? विषया एव विषं तदेवानलो विषयविषानल: तस्य यत् शमनं तत्र जलद इव-मेघ इव । असावपि विशेष्यते ' जलप्लुतालोक ' इति । (विद्यां काका) अस्यां विद्या काका सूचयति । पन्नगेन्द्रसमासान्तः तद्वीजयोगं साधयति । जलधरधाराधेयतया तीजयोगं च । गरुडग्रहणात् क्षि प ॐ स्वाहा । २बीजान्याख्यातानि । भगवन्नामग्रहणानित्यं लक्ष्मीर्भवतीति एतत् साधयति, () श्वी । अत एषा विद्या रचिता-ॐ ही लाह्वाप लक्ष्मी कुरु २ ॐ स्वाहा । इति पूजा।
पूजयित्वा जिनं पार्श्व पुष्पधूपानुलेपनैः ।।
शुचिर्दश सहस्राणि जपेद् विद्यां तदप्रतः ॥ शाकपिन्याककन्दाथैः सर्वधान्यैः फलैः शुभैः । दधिपक्वाननैवेद्यैर्बलिदीपेन सिद्धयति ॥ स्यन्दनं जायते गात्रे नाडीनां च प्रबोधनम् । उवामेडा त्वितरा पिङ्गला सुषुम्णोभयं तथा ॥ स्त्रीपुंनपुंसकाख्यास्ताः साध्यासाध्यं च ज्ञापकम् । तत्प्रवाहाद् ४ विजानीयात् सैकविंशतिवर्तना ॥ स्तम्भ स्तोभविवादांश्च निर्विषीकरणानि च । क्षा क्षीं है क्षः कंडकं (क;) करोति विद्यासमायोगात् ।।१२।।
१००८ क्षं विचित्रपुष्पैः । १ कथम् घ । २ °बीजान्याख्याति° क ख-ग। ३ °वामेडा वितरा पिङ्गा सुषुम्णा तूभया मता ग। ४ प्रभावात् स्ख। ५ °क्षोभ ग।