________________
AARImmum
विरचितम् ] श्रीपार्श्वनाथस्तोत्रम् । mmmmmmmmmmmmmmmmmmmmmwwwwww विद्यासहस्रषोडशगणनायकवीरवर्धितानन्द ! पन्नगकुलं कुलोत्तम ! निर्विषतां नय नयाभिगमात् ॥ ३ ॥ सर्वेऽपि महानागा नागाधिपकृतफणा 'तपच्छाय !। कलिकुण्डदण्डनिहता नश्यन्ति विषापहारेण ॥ ४ ॥
वृत्तिः । ___ अस्यामार्यायां यन्त्रमुपन्यस्तम् । तन्मध्यमगण्डिकाभिधानस्य प्राक् प्रतिपादितम् । 'पार्श्वनाथे 'त्यभिधानं क्रमाचतुर्पु दलेषु न्यसेत् , दलानेषु दलान्तरेषु च हर हरेति क्रमेण न्यसेत् 'नयस्य' हकारस्य आमिमुख्येन गमो नयाभिगमस्तस्मात् नयाभिगमात् पनगविषं निर्विषतां नयेति ॥२॥ एतत्यन्त्रस्य स्थापना ।
[प्रथमं यन्त्रम् १] विद्यासहस्र० स च पूर्वसिद्धाभिः कलाभिर्वेष्टनीयो भूयस्त्रिगुणमायया चेति । अस्य यन्त्रस्य फलम् --
कुङ्कुमगोरोचनया भूर्ये संलिख्य वामभुजदण्डे । धारयति यस्तु पुरुषः४ स भवति जनवल्लभः श्रीमान् ॥ अपुत्रा लभते पुत्रं निन्दवो जीवितप्रजाः । यन्त्रधारणमात्रेण दुर्भगा 'सुभगायते ॥ प्रभवति विषं न भुक्तं सन्निहिता लूतपिटकभूताश्च । संस्मरणादस्य सतां पापमपि नाशमुपयाति ॥ विन्यस्तं करतलयोरेतद् विषनाशनं क्षणात् कुरुते ।
ही हर हुंहः भणनाद् वामकराक्षेपणनियोगात् ॥ विपुटे भूर्ये विद्या लिखनीया ॥ ३ ॥
सर्वेऽपि० नागानामधिपैः कृता फणाभिः आतपच्छाया यस्य, तस्यामन्त्रणम् । हे भगवन्! तव पादप्रसादेन नश्यन्ति सर्वेऽपि महानागा भटा: इव कलिकुण्डदण्डनिहताः सन्तः । कथम् ? अपहृत. विषशस्त्रा इत्यर्थः ॥ ४ ॥
१° फणाधिप° क । २ °ॐसर्व° ग। ३ ° साफल्यम्' क। ४ स्त्री वा ग । ५ ° सुभगा भवेत् ° ख।