________________
[१२] श्रीशिवनागविरचितं श्रीपार्श्वनाथस्तोत्रम् ।
%
धरणोरगेन्द्रसुरपतिविद्याधरपूजितं जिनं नत्वा ।
क्षुद्रोपद्रवशमनं तस्यैव हि महास्तवं वक्ष्ये ॥ १ ॥ सुरलोकनाथपूजित ! हर हर हरहासरोषजुष्टमपि । पन्नगविषं महाबल ! शुक्लध्यानानलाक्षेपात् ॥ २ ॥
वृत्तिः । प्रणिपत्य लोकनाथं सर्वज्ञ सर्वसत्त्वहितयुक्तम् ।
मन्त्रस्तवस्य वृत्तिं वक्ष्ये 'ज्ञातोपदेशेन ॥ येषामन्यगारुडेष्वज्ञानतो ग्राहस्तान् प्रत्याह
उक्तानि च तत्त्वनै विपतिषु शास्त्रेषु मन्त्रबीजानि । तान्यपि भगवन्मन्त्रस्तवानुसारेण सञ्चिन्त्य ॥ सङ्ग्रहः कण्डकं स्तोभो मण्डलं स्तम्भनिर्विषम् ।। सक्रामं चार्द्धनारीशं जैनाह्वाक्षरयोगतः ॥ भवतीति क्रिया ॥
धरणोरगेन्द्र० जिनं नत्वेति क्रिया । किंविशिष्टम् ? धरणश्चासाबुरगेन्द्रश्च स च सुरपतयश्च विद्याधराश्च तैः पूजितं ' पुष्पादिभिरचितम् जिनं नत्वा । यैः (ये) क्षुद्रसत्वैः कृता उपद्रवास्तेषां 'शमनं' नाशकं नत्वा तस्यैव महास्तवं 'वक्ष्ये' कथयिष्ये इत्यर्थः । एतच्चादौ मङ्गलार्थम् ॥१॥
सुरलोक हे सुरलोकानां नाथैः पूजित ! पन्नगविषं 'हर हर' नाशय नाशय । किम्भूतम् ? हरस्य हारो-वासुकिस्तस्य रोषस्तेन 'जुष्टम्' आसेवितम् । हे महाबल ! 3निर्विषभावं नय । कथम् ? शुक्लध्यानमेवाग्निस्तस्य क्षेपेण । अपिशब्दाद् विषमपि लोकानां नैगमाद्यभिगमेन विनाशयेति ॥
१ ° ज्ञानो' क । २ ० ईि क । ३ ° निर्विषतां क ।