________________
वरिप्रणीतम् ] चिन्तामणिपार्श्वनाथस्तोत्रम् ।
हरिरुद्रादयः स्वामिन् ! रमन्ते भुवनत्रये । वरदास्त्वत्प्रसादेन सर्वे ते विश्वनायक ! ॥ ४ ॥ हतारिं योगिनः सर्वे जिन ! त्वां जगदीश्वरम् । नमन्ति परमात्मानं फुल्लप्रवरपङ्कजैः ॥ ५ ॥ लिङ्गैर्युक्ता वियुक्ताश्च गरीयस्तत्त्वसंज्ञकम् । हीरूपं हृदि पश्यन्ति नमः स्वाहादिभिः सह ॥ ६ ॥ श्रीमत्पङ्कजमध्यस्थं चञ्चन्नीलमणिप्रभम् । केवलज्ञानसम्पूर्ण ॐ ह्री श्री अर्हमन्वितम् ॥ ७ ॥ चतुर्मिरेभिरालीढं संस्मरेद् योगिनं जिनम् । शिरोवामभुजापाददक्षिणस्थितिषु क्रमात् ॥ ८ ॥ वामे पद्मावती देवी शासनोत्सवकारिणी। श्रीविभोः सर्वदा भक्तो धरणेन्द्रस्तु दक्षिणे ॥ ९ ॥ श्लोकपञ्चकपादाद्यैरक्षरैःरसद्वितीयगैः । प्रोक्तस्तैमन्त्रराजोऽसौ परितोऽष्टदलस्थितः ॥ १० ॥ रोहिणीप्रमुखा देव्यः षोडशाम्बुजसंस्थिताः । चतुर्विशतिपत्रेषु जिनमातः स्मरेत् सदा ॥ ११ ॥ त्रिधाम्बुजमायाबीजवेष्टिरेखात्रयाग्रतः । क्रोकारस्थापिते वर्णे दिक्पालग्रहसंवृते ॥ १२ ॥ मन्त्राद्यबीजसंयुक्तान् जिनानके प्रकल्पितान् । चतुरष्टदशद्वयादिरूपान् कोणेषु तु द्विधा ॥ १३ ॥