________________
४४
श्रीजैनस्तोत्र सन्दोहे
ऋद्धिसिद्धिमहाबुद्धिधृतिश्रीकान्तिकीर्तिदम् । मृत्युञ्जयं शिवात्मानं जपन्नानन्दितो जनः ॥ २९ ॥ सर्वकल्याणपूर्णः स्याज्जरामृत्युविवर्जितः । अणिमादिमहासिद्धिं लक्षजापेन चाप्नुयात् ॥ ३० ॥
[ श्रीजिनपति
प्राणायाममनोमन्त्रयोगादमृतमात्मनि ।
त्वामात्मानं शिवं ध्यात्वा स्वामिन् ! सिद्ध्यन्ति जन्तवः ॥ ३१ ॥
हर्षदः कामदश्चात रिपुघ्नः सर्वसौख्यदः ।
पातु वः परमानन्दलक्षणः संस्तुतो जिनः ॥ ३२ ॥
तत्त्वरूपमिदं स्तोत्रं सर्वमङ्गलसिद्धिदम् ।
त्रिसन्ध्यं यः पठेन्नित्यं नित्यां प्राप्नोति स श्रियम् ॥ ३३ ॥
[ ९ ]
श्री जिनपतिमूरिविरचितं श्रीचिन्तामणिपार्श्वनाथस्तोत्रम् |
जगद्गुरुं जगदेवं जगदानन्ददायकम् । जगद्वन्द्यं जगन्नाथं पार्श्वनाथं जिनं स्तुवं ॥ १ ॥ नरा ध्यायन्ति तत्वार्थमिह त्वां ज्ञानदीपकम् । ऊर्ध्वमिन्द्रादयः सर्वे नमन्ति मुक्तयेऽनिशम् ॥ २ ॥ पातालेऽनन्तनागाद्याः सर्वे वासुकितक्षकाः । वितन्वन्ति सदा क्रीडां सर्वज्ञ ! त्वत्प्रसादतः ॥ ३ ॥