________________
सूरिप्रणीतम् ]
भयहरस्तोत्रम् ।
२५
सम्प्रदायश्चात्र
सिंहादिभये प्राप्ते म्ला म्ली म्लें म्लौ म्लः इति पञ्चाङ्गुलि-पञ्चाक्षराणि पश्चाङ्गुलिषु न्यस्यैकाग्रमानसैः मूलूँ मन्त्रं परिजप्य सम्मुख पुष्पादि क्षेप्यम् । सिंहभयं न भवति, अपि प्रत्यनीको विलयमेति ।
तथा परप्रवादभयप्राप्तौ म्लौ मला म्ली म्ल म्लः कराङ्गन्यासं कृत्वा मला मन्त्रं परवादजिह्वायां ध्यायमानमे काग्रमानसैस्तेषां वाचमपहरति । परविद्याविच्छेदे आतुरशरीरे ध्यातं परमन्नानपहरति ।
___ तथा शत्रुप्रतिकृतिं नदीउभयतटमृत्तिकया कृत्वा हरितालेन म्लँ मन्त्रमालिख्य सलवणं तस्य हृदये निधाय उपरि पाषाणं दत्वा पादप्रहारेण ताडयित्वा धारयेत् सप्तरात्रेण शत्रु वश्यमानयति ॥ १४ ॥
अधुना गजेन्द्रभयमाहससिधवलदंतमुसलं दीहकरुल्लालवुड्ढिउच्छाहं । । महपिंगनयणजुअलं ससलिलनवजलहरारावं ॥ १४ ॥ भीमं महागइंदं अच्चासन्नपि ते न वि गणंति । जे तुम्ह चलणजुअलं मुणिवइ ! तुंगं समल्लीणा ॥ १५ ॥ व्याख्या
भीमं महागजेन्द्रमत्यासन्नमपि ते न विगणयन्ति । ते किं. ? ये समालीनाः तव चरणयुगं मुनिपते ! तुझं समाश्रिताः । किंविशिष्टं गजेन्द्रम् ? शशिधवलदन्तमुशलं, दीर्घकरोल्लालबर्द्धितोत्साहम् , मधुपिङ्गनयनयुगलम् , ससलिलनवजलधरारावम् ॥ इत्यक्षरार्थः ।।
पकारोदरे देवदत्तनामालिख्योपरि ह्रीकारेण वेष्टयेत् । बाह्ये षोडशस्वरैरावेष्टयेत् , तद्बाह्य ॐ हाँ ह्री चामुण्डे ! स्वाहा निरन्तरं वेष्टय वलयं पूरयेत् । उपरि मायाबीजं दत्वा यन्त्रं कारयेत् । [ षोडशं यन्त्रम् १६] इदं यन्त्रं कुङ्कुमगोरोचनया भूर्ये संलिख्य धारणीयं हस्तिभयं मुक्तसीत्कारप्रचुरमपि न भवति ॥ १५ ॥