________________
प्रस्तावना ।
( ३९ )
मन्त्रिप्रतिबोधकाः कोरण्टके प्रतिष्ठाकारकाश्च ते समन्तभद्रसूरिशिष्या वृद्धदेवरयो भिन्ना एतस्मात् । उपदेशतरङ्गिण्यां संवदेषु लेखकप्रमादस्ततो नाऽत्र दोषः ॥
(२०) श्रीहेमचन्द्राचार्यः
।
गूर्जरेश्वरश्रीकुमारपाल भूपालप्रतिबोधकः सूरिपुरन्दरोऽसौ । घन्धुक्कनिवासी मौढ ज्ञातियो वणिक् श्रेष्ठिवरश्चाचिगोऽस्य पिता । शीलादिगुणवाहिनी पाहिनी माता । पूर्णतल्लगच्छीयाः श्रीदेवचन्द्रसूरयः श्रीमतो गुरवः ।
अत्रभवतः सं. ११४५ वर्षे जन्मे, सं. ११५० वर्षे दीक्षा सं. १९६६ सूरिपदम् सं. १२२९ वर्षे स्वर्गमनं च बभूव । विशेषचरित्रजिज्ञासुभिर्विलोकनीयाः प्रभावकचरित्र - चतुर्विंशतिप्रबन्धप्रभृतयो ग्रन्थाः ।
श्री जिनदत्तसूरि-वादिदेवमुरि - श्री हेमचन्द्राचार्याणां जन्मदीक्षासमय - स्थलादिविषयकं समवक्तव्यताकं कोष्ठकं प्रकटीकृतं गान्धीत्युपान पं. लालचन्द्रेण गायकवाडओरयन्टलइन्स्टीटयूटमुद्रापिताऽ पभ्रंशकाव्यत्रयी भूमिकायां तच्च दीयतेऽत्र पुनः सोपयोगित्वाद् वाचकमनोविनोदाय -
१ शरवेदेश्वरे (११४५) वर्षे कार्तिक पूर्णिमानिशि । जन्माभवत् प्रभोव्योंमबाणशम्भो (११५० ) व्रतं तथा ॥८४८ ॥ रसषट्टेश्वरे (११६६) सूरिप्रतिष्ठा समजायत । नन्दद्वयरवौ (१२२९) वर्षेऽवसानमभवत् प्रभोः ॥ ८४९ ॥