SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः ] मालामन्त्रस्तवः । ज परिशिष्टम् । श्रीधर्मघोषसूरिविरचितं लोकान्तिकदेवस्तवनम् । थोसामि जिणे जेहि उ विनविया पन्वयंति जं दाउं । तज्जियकप्पियलोगंतिदेवढाणाइकित्तणओ ॥१॥ असंखतमेऽरुणवरुदहिम्मि जोयणसहस्सबायाला । गंतु जलोवरिमतला उष्पइओ आउतमकाओ ॥२॥ पढमं जोयणसंखिज्जवि वित्थडो उवरुवरिय संखिजे । महयंधयाररूवो उड़े आवरिय चउकप्पो ॥३॥ अवचूरिः। यैर्देवैर्विज्ञप्ताः प्रव्रजन्ति जिनास्ते जीतकल्पाः स्थिराचारा लोकान्तिकदेवास्तत्स्थानादि कीर्तनतोऽहं जिनान् स्तोष्ये । यच्च दत्त्वा प्रव्रजन्ति जिनास्तत्कीर्तनाच्च स्तोष्ये जिनानिति ॥१॥ लोकान्तिकदेवाः कस्मिन् विमाने क कल्पे सन्ति ?, उच्यतेजम्बूद्वीपात् तिर्यगसङ्ख्याततमेऽरुणवरसमुद्रेऽरुणवरद्वीपपर्यन्तवेदिकातो द्विचत्वारिंशद् योजनानि गत्वा तस्मिन् प्रदेशे जलोवरिमतलादुत्पत्तितः तमस्कायो अप्कायमयो महान्धकाररूपो वलयाकारः प्राप्यते ॥२॥ स च प्रथम सप्तदशयोजनशतान्येकविंशतिसमधिकानि यावत् समभित्त्याकारतयास्ति, तथा प्रथमं विष्कम्भेण सङ्ख्येययोजनविस्तरः, तदुपरि असङ्ख्येयविस्तृतः, परिक्षेपेण सर्वत्राप्यसङ्ख्येयान्येव स च तिर्यगूविस्तरानाद्यकल्पचतुष्टयमावृत्य पञ्चमकल्पतृतीयेऽरिष्टप्रस्तरे निष्ठितः स चाधः शरावाकाराः उपरि कुक्कुटपञ्जरसंस्थानः ।
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy