________________
१०८
जैनस्तोत्रसन्दोहे।
[ श्रीधर्मघोष
गन्धर्व गान्धर्वी भृङ्गरीटभृङ्गरीटिकासुभटम् । चामुण्डां चर्ममहाचण्डां........सप्तमातृकिकाम् ॥ ५ ॥ दुष्टमहासप्तकमातृकां महारोहिणी सरोहिणिकाम् । सूर्यग्रहं भृशं गृहिण गृहिण समहेश्वरग्रहकम् ॥ ६॥ लघु गृहिण गृहिण चैकाहिकज्वरं द्वयाहिकं त्र्यप्रभवम् । दुष्टं चातुर्थिकमपि विषमज्वरमर्द्धमासभवम् ॥ ७ ॥ मासिक-सांवत्सर-वात-पित्तिक-श्लेष्मसन्निपातभवान् । एह्येहि शीघ्रमिह हन हन दह पच पच च्छिन्द ॥ ८ ॥ छिन्दय भिन्दय भिन्दय मारय मारय च मङ्घ भक्षय च । भक्षय शोषय शोषय प्रज्वल संसंप्रज्वलान्हाय ॥ ९ ॥ ॐ मन्तस्थं नामाग्निकुण्डगं बाह्यतोऽष्टसु दलेषु । हीमादिवर्णपूर्ण स्वाहावृतमस्यरपवो (१) दुष्टः ॥ १० ॥ नागेन्द्रयुजा पद्मावत्या वेष्टितमिहाहि-भोगाभ्याम् । मुखनाशाश्वासाहितविहायसीत्यष्टदलकमले ॥ ११ ॥ ध्यायत शिवदं पाच शिवैरिव 'शिवकरैरिहाँ ही श्री । प्रैप्रो को की फं फट् स्वाहेति शिवप्रमितवर्णैः ॥ १२ ॥ इति तमसोऽन्तकृतेऽस्मै नमो नमो भगवते पार्श्वनाथाय । क्षेमङ्कराय पदं ही नमतः स्वाही भुजोऽपि स्युः ॥ १३ ।।
१ शिवैरिव शिवकरैः ह्रीं ह्रीं । श्रीफ्रेकोहीहू ' स्हाहेति शिवप्रमितवर्णैः ॥
इति प्रत्यन्तरे पाठः।