________________
वाचकविरचितम् ] श्रीशङ्खेश्वरपार्श्वजिनस्तवनम् (३९१ )
भटासिभिन्नद्विपकुम्भनिर्यन्मुक्ताफलैस्तारकिताभ्रदेशे । धनुर्विमुक्तस्तव काण्डवृन्दैः प्रदर्शिताकाण्डतडिद्विलासे ॥१०२॥ रणाङ्गणे धीरमृगारिनादैः पलायमानाखिलभीरुलोके । जयं लभन्ते मनुजास्त्वदीयपदाब्ज सेवाप्रथितप्रसादाः ॥ १०३ ॥ युग्मम् ॥
उत्तालभूयः पवमानवेगादुल्लोलकल्लोलसहस्रभीष्मे । समुच्छलत्कच्छपनक्रचक्रसङ्घट्टनाभङ्गुरयानपात्रे ॥ १०४ ॥
पतन्महाशैलशिलारवेण गत्प्रमीलीकृतपद्मनाभे ।
श्रियं लभन्ते भवतः प्रभावात् सांयात्रिका वीतभियः पयोधौ ॥ १०५ ॥
युग्मम् ॥
जलोदरा दत्तदरा न जातु ज्वराः प्रशान्तप्रसरा भवन्ति । न पुष्टतां कुष्टरुजः प्रमेहा विदीर्णदेहा न समुद्भव (वह) न्ति ॥ १०६ ॥ भगन्दरः प्राणहरः कथं स्यात् क्षणाद् व्रणानां क्षयमेति पीडा । ब्रूमः किमन्यत् तव नाममन्त्राद् रुजः समस्ता अपि यान्ति नाशम् युग्मम् ॥
आपादकण्ठार्पित शृङ्खलौघा व्रणैर्विशीर्णाः प्रतिगात्रदेशम् | व्यथावशेन क्षणमप्यशक्ता उच्छासमुल्लासयितुं समन्तात् ॥१०८॥ दशामवाप्ता भृशशोचनीयां विमुक्तरागा निजजीवितेऽपि । नरा जपन्तस्तव नाममन्त्रं क्षणाद् गलबन्धभया भवन्ति ॥ १०९ ॥
युग्मम् ॥