________________
जैनस्तोत्रसन्दोहे
[श्रीयशोविजय
विधाय मूर्धानमधस्तपस्यया किमुच्चमन्त्रव्रतशीलशीलनैः । श्रुतं न शङ्केश्वरनाम विश्रुतं किमत्र विद्याव्रजबीजमुज्ज्वलम् ॥९३॥ मदाम्बुलुभ्यद्भमरारवेण प्रवृद्धरोषं गिरितुङ्गकायम् । अश्रान्तमान्दोलितकर्णतालं प्रोन्मूलयन्तं विपिनं विशालम् ॥९४॥ करप्रहारैः कुलिशानुकारैः सन्त्रासयन्तं बहुवन्यजन्तून् । अभ्यापतन्तं द्विरदं निरीक्ष्य भियं जनास्त्वच्छरणा न यान्ति ॥१५॥
द्वाभ्यां युग्मम् ॥ विदीर्णदन्तिव्रजकुम्भपीठव्यक्तक्षरद्रक्तरसप्रसक्तम् । गिरिप्रतिध्वानकरः प्रणादैविध्वंसयन्तं करिणां विनोदम् ॥१६॥ अतुच्छपुच्छस्वनवारबिभ्यद्वराहमातङ्गचमूरयूथम् । मृगारिमुवीक्ष्य न शङ्कते ते नाम स्मरन् नाथ ! नरो नितान्तम्।।९७॥
द्वाभ्यां युग्मम् । तमालहिन्तालरसालतालविशालसालबजदाहधूमैः । दिश: समस्ता मलिना वितन्वन् दहन्निवादं प्रसृतैः स्फुलिङ्गैः।।९८॥ मिथो मिलजालजटालमूर्तिर्दवानलो वायुजवात् करालः । त्वदीयनामस्मरणैकमन्त्राद् जलायते विश्वजनाभिवन्ध ! ॥९९॥
युग्मम् ॥ स्फुरत्फणाडम्बरभीमकायः फूत्कारभारैरुदयविषायः । उल्लालयन् क्रूरकृतान्तदंष्ट्राद्वयाभजिह्वायुगलं प्रकोपात् ॥१०॥ पापाणुभिः किं घटितः पयोदश्यामः फणीन्द्रस्तव नाममन्त्रात् । भृशं विशंकं व्रजतां समीपे न भीतिलेशं तनुते नराणाम् ॥१०॥
युग्मम् ॥