SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ जैनस्तोत्रसन्दोहे | शिष्योत्तमास्तत्रभवतः श्रीअजितदेवसूरयः, श्रीवादिदेवसूरयश्च विभासयामासुरसह्यतेजस्काः परवादिनिवहगहनं स्फुलिङ्ग इव दवार्चिषः || ( २० ) ९. चन्द्रप्रभसूरिः उपर्युक्तस्यैव श्रीमुनिचन्द्रमू रेर्गुरुभ्राताऽयम् । अस्मादेव समजायत वि. सं. ११५९ वर्षे पौर्णिमीयकमतोत्पत्तिः, तत्सम्बन्धस्त्वेवम् - श्रीमुनिचन्द्रसूरिगुरुभ्राता चन्द्रप्रभाचार्थः संविग्नत्वादिगुणगरिष्ठेषु श्रीमुनिचन्द्रसूरिषु बहुमानपराय गस्य कस्यचिन्महर्द्धिक श्राद्रस्य जिनबिम्बप्रतिष्ठामहसि श्रीमुनिचन्द्रसूरिमहिमानं दृष्ट्वा मात्सर्यात् श्राद्वप्रतिष्ठां व्यवस्थाप्य मतभेदकरणाय पौर्णिमापाक्षिकं प्ररूपयन् सन निवारितोऽपि श्राद्धप्रतिष्ठा पूर्णिमापाक्षिकं चेत्युयमप्यनादिसिद्धत्वं प्ररूपयेति मम स्वप्ने पद्मावत्योक्तमित्यसद्भाषणपुरस्सरं स्वाभिनिवेशमत्यजन् श्रीसचेन बहिष्कृतः । ततो वि. ११५९ वर्षे पौर्णिमीयकमतोत्पतिः । तत्प्रबोधाय च श्रीमुनिचन्द्रसूरिभिः पाक्षिकसततिका कृतेति । " १ उक्तं च क्षेत्रसमासवृत्तिप्रशस्तौ दुर्वादिद्विरदाङ्कुशः समयवित्श्रेणीशिरोमण्डनं, श्रीचन्द्रप्रभसूरिराट स भगवान् प्राचीकटत् पूर्णिमाम् । तस्माज्जैनवचोऽमृतं भृशमपुः श्रीधर्मघोषादयः श्रीभद्रेश्वरसूरितस्त्वचकलत्, शाखा द्वितीया प्रथाम् ॥ 64
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy