________________
प्रस्तावना।
- ललितविस्तरापलिका, देवेन्द्रनरकेन्द्रप्रकरणवृत्तिः, धर्मबिन्दुवृत्तिः, योगबिन्दुवृत्तिः, कालशतकम्, वनस्पतिसप्ततिका, अङ्गुलसप्ततिका, आवश्यक (पाक्षिक) सप्ततिका' प्राभातिकजिनस्तुतिः, (५.९)
कर्मप्रकृतिविशेषवृत्तिः (टिप्पनकम् ) सार्द्धशतकचूर्णिः, उपदेशपदसुखबोधा वृत्तिः, गाथाकोशः, अनुशासनाङ्कुशकुलकम् , उपदेशामृतकुलकद्वयम् , उपदेशपञ्चाशत्, रत्नत्रयकुलकम्, शोकहरउपदेशकुलकम् , विषयनिन्दाकुलकम् प्रा. गा. २५ सम्यक्त्वोत्पादविधिः, सामान्यगुणोपदेशकुलकम् , हितोपदेशकुलकम् , रसाउलो (प्राकृतमयः ) प्रश्नावलिश्च । श्रीउदयप्रभमूरिकृतप्रवचनसारोद्धारविषमपदपर्यायश्चानेन समशोधि ।
श्रीमतं एव वचनेन विरचिता गुरुभ्रात्रा नेमिचन्द्रमुरिणा उत्तराध्ययनबृहद्वृत्तिः ।
१ एतन्निर्माणे वृद्धसम्प्रदायस्त्वेवम्
" एकदा श्रीधराभिधश्रावकेण निजद्रव्यभूरिव्ययेन जिनबिम्बं प्रतिष्ठितं श्रीचन्द्रप्रभसूरिनामाऽस्य ज्येष्ठगुरुभ्राता निमन्त्रितो यथा भगवन् ! अस्मिन् महामहे पूज्यमुनिचन्द्राचार्यप्रेषणेन (तत्कालीनेषु क्रियाप्रवीणत्वात् तस्य ) कृतार्थीकृताः स्मो वयम् । श्रुत्वैतदसूयया जातविपरिणामेन स्वकीयमानहानि मन्यमानेन तेनाचार्येण 'साधूनां प्रतिष्ठादिकरणमनानुषङ्गिकम् । इति प्ररूप्य पाक्षिकप्रतिक्रमणं पूर्णिमायां कर्त्तव्यमिति स्वप्नद्वारा देवतादेशव्याजेन स्वशिष्याणां नूतनप्ररूपणा — श्रावकैः प्रतिष्ठा काराप्या, पूर्णिमाया पाक्षिकप्रतिक्रमणं चेति ' कृता तत्प्रतिबोधार्थमेतद्ग्रन्थरचना । २ श्रीनेमिचन्द्रप्रिरुद्धतवान् वृत्तिकां तद्विनेयः । गुरुसोदर्यश्रीममुनिचन्द्राचार्यवचनेन ।
-जेसल. भां० सुचा।
१ एनिशाधराभिवप्रावकेणता निमन्त्रितो ।