________________
(१४)
जैनस्तोत्रसन्दोहे। anmmmmmmmmmmmmmmmmmmmmmmmm चम्पूकथेति अर्वाचिनप्रबन्धलेखका वदन्ति परं कथानायिकायाः ‘तिलकमञ्जरी ' इति नाम्ना कथापि 'तिलकमञ्जरी' ति प्रसिद्धा । अत एव कवेररय तिलकमञ्जरी ' त नामपुत्री आसीत् तन्नाम्ना च कथानाम प्रसिद्धिरितिकथनं न प्रमाणाकोटिमधिरोहति ।
सम्यक्त्वप्राप्तश्रद्धानदाढर्यस्य आहेतचूडामण्यादिनैपुण्यत्वदर्शकं च वर्णनमस्य ग्रन्थान्तरादवसेयम् ।
सप्रसङ्गं लिख्यतेऽस्य पाण्डित्यप्रख्यापकं कुमारपालप्रबन्धान्तर्गतं वृत्तान्तमिह-' अथ प्रदक्षिणावसरे सरसापूर्वस्तुतिकरणार्थमभ्यर्थिताः श्रीहेमसूरयः सकलजनप्रसिद्वां ' जय जंतुकप्प० । इति धनपालपश्चाशिका पेठुः । राजादयः प्राहुः, भगवन् ! भवन्तः कलिकालसर्वज्ञाः परकृतस्तुतिं कथं कथयन्ति ? । गुरुभिरूचे राजन् ! श्रीकुमारदेव ! एवंविधसद्भूतभक्तिगर्भा स्तुतिरस्माभिः कर्तुं न शक्यते, एवं निरभिमानश्रीगुरुवाक्यमृतोल्लासितस्वान्ता नृपादयस्तामेव स्तुति भणन्तो राजादनीतले प्राप्ताः ? ॥"
सत्तासमयस्त्वस्य
_' व्युत्पत्तिधनपालतः । इत्यभिधानचिन्तामणितृतीयपद्यस्वोपज्ञवृत्तिगतपद्यावलोकनेन श्रीहेमचन्द्राचार्यविरचितकाव्यानुशासने (पृ. २३१) वचनश्लेषाधिकारे तिलकमञ्जरीगतद्वितीयपद्यप्रेक्षणेन तत्पूर्वगामीतिनिश्चयाच्च विक्रीमीयकादशशताब्दिकरूपो निश्चित एव ।