SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ (२५६ ) .. जनस्तोत्रसन्दोह [श्रीधर्मधोष किन्तु त्वद्गुणराशिरक्तहृदयस्तत्र प्रवृत्तोऽस्म्यहं शक्याशक्यविचारणासु विकलः प्रांया हिं रागौं जनः ॥२॥ विध्वस्तामय ! निर्जितेन्द्रियहय ! प्रक्षीणकर्माश्रय ! श्रीलीलालय ! निर्मितस्मरजय ! स्याद्वादविद्यामय!। मिथ्यात्वप्रलय ! प्रहींणविषय ! स्फूर्जत्रिलोकीदय ! श्रीपार्श्व ! स्मयरोंषदोषकुनयध्वंसिन् ! संदा त्वं जय ॥३॥ किं कारुण्यमयी किमुत्सदमयी किं विश्वमैत्रीमयी किं वाऽऽनन्दमयी किमुन्नतिमयी कि सौख्यरेखामयी है। इत्थं यत्प्रतिमां समीक्ष्य भविनश्चेतश्चिरं तन्वते स श्रीपार्श्वजिनस्तनोतु विशदश्रेयांसि भूयांसि नः ॥४॥ आधिव्याधिविरोधिवारिधियुधि व्यालस्फटालोरगे ___ भूतप्रेतमलिम्लुचादिषु भयं तस्येह नो जायते । नित्यं चेतसि 'पार्श्वनाथ' इति हि स्वर्गापवर्गप्रदं सन्मन्त्रं चतुरक्षरं प्रतिकलं यः पाठसिद्धं पठेत् ॥५॥ त्वं देवः शरणं त्वमेव जनकस्त्वं त्वं गुरुस्त्वं सुहृत् त्वं बन्धुस्त्वमसि प्रभुस्त्वमसवस्त्वं मे गतिस्त्वं मतिः । तत् किं पार्श्वविभो ! पुरःस्थितमपि त्वं सेवकं किङ्करं मामद्यापि लसद्दयारसिकया दृष्टयापि नो वीक्षसे ? ॥६॥ शस्योऽयं समयः क्षणोऽयमनघः पुण्या त्वियं शर्वरी श्लाध्योऽयं दिवसो लवोऽयममलः पक्षोऽयमर्चास्पदम् । मासोऽयं विशदः समाः स्फुटमिमाः श्रीपार्श्व ! विश्वप्रभो ! यत्र त्वद्वदनं व्यलोक्यत मया निःशेषसौख्यावहम् ॥७॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy