________________
सूरिप्रणीतम् ]
श्रीपार्श्वदेवस्तवनम् ।
( २५५ )
श्रुतदेवतास्तुतिः--
त्वन्नामाऽज्ञानभिद् धर्मकीर्तये श्रुतदेवते ! ।
यन्न कोऽपि तदने स्वकीर्तये श्रुतदेऽवते ॥३८॥ सर्वसम्यग्दृष्टिदेवदेवतास्तुतिः
यक्षाम्बाद्याः सुराः सर्वे वैयावृत्यकरा जिने । भद्रं कुर्वन्तु सङ्घाय वै यावृत्यकराजिने ॥३९॥
[ ९९ ] श्रीपार्श्वदेवस्तवनम् ।
विध्वस्ताखिलकर्मजालविलसत्सज्ज्ञानसद्दर्शनं
ज्योतीरूपमरूपगन्धमरसं स्पर्शादिभिर्वर्जितम् । सिद्धावस्थमवस्थितातुलसुखं वर्यैकवर्यात्मकं
निस्सीमातिशयप्रभावभवनं श्रीपार्श्वनाथं स्तुवे ॥१॥ काऽयं ते जिनराज ! राजकिरणग्रामाभिरामः स्तवः
काऽहं प्रातिभसौरभस्फुरदुरुप्रज्ञाविहीनः प्रभो !।
अवचूरिः। अज्ञानभेदस्वभावं कीर्तये समुत्कीर्तयन्तं प्रयुजे-ग्राहयामि । भवते-वदते न कोऽपीति योगः स्वकीर्तये-निजस्फूर्तये ॥ ३८ ॥ या-श्रीः तस्या वृत्य-आश्रयणं तस्य कं-सुखं तेन राजिते ॥ ३९ ॥
१ त्रिलोकोत्सवः ।