SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ( २३८ ) जैनस्तोत्रसन्दोहे [श्रीसोमतिलक तव सिद्धस्य बुद्धस्य पादाम्भोजरजःकणः । पिपर्ति कल्पशाखीव कामितानि तनूमताम् ॥ ३ ॥ श्रीगौतमाऽक्षीणमहानसस्य तव कीर्तनात् । सुवर्णपुष्पां पृथिवीमुच्चिनोति नरश्चिरम् ॥ ४ ॥ अतिशेषेतरां धाम्ना भगवन् ! भास्करी श्रियम् । अतिसौम्यतया चान्द्रीमहो ते भीमकान्तता ॥५॥ विजित्य संसारमायाबीजं मोहमहीपतिम् । नरः स्यान्मुक्तिराज्यश्रीनायकस्त्वत्प्रसादतः ॥ ६ ॥ द्वादशाङ्गीविधौ वेधाः श्रीन्द्रादिसुरसेवितः । अगण्यपुण्यनैपुण्यं तेषां साक्षात्कृतोऽसि यैः ॥ ७ ॥ नमः स्वाहापतिज्योतिस्तिरस्कारितनुत्विषे । श्रीगोतमगुरो ! तुभ्यं वागीशाय महात्मने ॥ ८ ॥ . इति श्रीगौतम ! स्तोत्र . मन्त्रं ते स्मरतोऽन्वहम् । श्रीजिनप्रभसूरेस्त्वं __ भव सर्वार्थसिद्धये ॥ ९ ॥ श्रीसोमतिलकमूरिकृतं ज्ञानपञ्चमीस्तवनम् । श्रीशैवेयं यादवविशालकुलकुवलयैकहिमरश्मिम् । गौसम्भारविभासितवस्तुस्तोमं नमस्कृत्य ॥ १ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy