________________
( २०० )
मस्तोत्रसन्दोहे
[श्रीजिबदस
वाचस्पतिप्रभृतयोऽपि ययोरशेषान्
___वक्तुं गुणानिह नहि प्रभविष्णवः स्युः ॥ १ ॥ स्तोतुं तयोर्जडमतिः किमहं क्षमोऽस्मि
निर्मेरनिर्मलगुणानसमानशेषान् । त्वत्पादकम्पितफलप्रदपादप्राप्तेः
पूर्व प्रसूनमिति भाविफलं तदने ॥२॥ अजितमजितं रागेणागःप्रणाशनपण्डितं
स्फुटमनिकटीभूतः श्रीणां स यो न घिनौति तम् । सुरजनबन्धूनेत्रानन्दक्षणक्षणदाकरं
करणवशगो न स्वं नान्यं प्रवेत्ति स मूढधी: ॥३॥ विनमदमरराजीमौलिमालाग्रभाग
प्रवरमरकतालीभृङ्गसंसर्गशोभि । यदमलपदपद्मद्वन्द्वमद्वन्द्ववन्ध
प्रतिदिनमनवा मौलिनाऽहं वहामि ॥ ४ ॥ जिनवरमजितं करोमि भक्त्या ...
कृतकृतिविनुतिं कृपाकृपाणी । कृतकुमतभिदं हृदन्तराले
नयविनययुतोऽहमेव देवम् ॥ ५ ॥ वन्दे शान्ति दत्तविश्वैकशान्ति
भ्रान्तं भूयस्तैर्न यैराश्रितोऽसौ। संसारेऽस्मिन् दुर्निवारान्तरारि
च्छेदच्छेकं मूर्तिमत्कल्पवृक्षम् ॥ ६ ॥