________________
( १९६ ) जैनस्तोत्रसन्दोहे [ श्रीअभयदेवइत्थं सन्देहदोलां दधदधिकमभात् पञ्चकल्याणकेषु
त्रैलोक्यं यस्य स स्याज्जिनपतिरपतिः सर्वकल्याणकृद् वः ॥३॥ श्रीमान् यः पापतापप्रशमहिमरुचिः सप्तभिः पन्नगेन्द्र___ स्फारोत्फुल्लस्फटाभिः स्फुटफलितमणिप्रांशुरश्मिच्छटाभिः । भाति भ्रान्तिच्छिदायै जगति सुनयसत्तत्त्वसत्सप्तभङ्गी
सङ्ख्याव्याख्यानबद्धक्षण इव स जिनः श्रागनिष्टं पिनष्टु ॥४॥ भक्तिप्राग्भारनम्रामरविसरशिरःश्रेणिचञ्चत्किरीट-- ___ स्पष्टोच्चैःकोटिकापोऽञ्चलचलननखादर्शसक्रान्तकायम् । सेवासज्जं वदने त्रिजगदपि विभात्युप्रसंसारशत्रु
त्रासान्निीतदेशश्रितमिव स विभुय॑स्यतु व्यापदं वः ॥५॥ उन्मीलल्लीलमुघल्ललितमुदियदस्तोकबिब्बोकमुच्चैः
साचिप्राञ्चत्कटाक्षच्छटमधिकभवद्विभ्रमारेचितश्रु ।। स्वःस्त्रैणं नाक्षिपद्यं स्मरपरिचिदिति व्यक्तशृङ्गारभावं
भव्याधिव्याधिबन्धं हरतु स भगवान् भग्नकन्दर्पदर्पः ॥६॥ दैन्यादन्योन्यवृत्त्यानुकृतपरतया त्रासतो हासतो वा
देव ! प्राहुनमस्ते इति पदमपि ये केऽपि तेऽपि क्रमेण । स्वःकान्तोन्मुक्तमुक्तावलिललितकटाक्षच्छटालक्ष्यलक्ष्या
मक्षु स्युर्मोक्षलक्ष्मीकुचकलशतटीतारहारप्रकाशः ॥७॥ स्फूर्जन्मोहप्ररोहच्छिदुरपरशुना सद्य उद्दामधाम्ना
नाम्नाम्नातेन यस्य त्रिजगति निखिलोपद्रवा विद्रवन्ति । नन्याद् वन्दारुवृन्दारफनिकरनमन्मस्तकस्तोमशस्त
श्रस्तास्तोकप्रसूनस्तबकितचरणोपान्तपार्श्वः स पार्थः ॥ ८॥