SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ( १८०) जैनस्तोत्रसन्दोहे [श्रीरामचन्द्रन विस्मयो यदर्थन्ति त्वादृशो वीतविप्लवाः ।। यदिन्दुः पार्वणो रम्यस्तत्र किं नाम कौतुकम् ? ॥ १० ॥ इयन्तं कालमुदण्डजाड्यपिण्डान्धमानसः ।। त्रातर्धान्तोऽस्मि संसारकान्तारे सत्यपि त्वयि ॥ ११ ॥ पुण्यनैपुण्यसम्प्राप्यः साक्षात्कारः कुतस्त्वयि । स्वप्नेऽपि देव ! भूयान्मे त्वदर्शनमहोत्सवः ॥ १२ ॥ क्षीयन्तां नाम पापानि भवत्पादसपर्यया । पुण्यान्यपि यदायान्ति क्षयं तेनाऽस्मि विस्मितः ॥ १३ ॥ प्रसीद सीदते मह्यमेधि दीने मयि प्रभुः ( भो !)। समाधिव्याधिविध्वस्तं........देव ! पालय ॥ १४ ॥ मादृशां पापबीजानां स्थानं कापि न विद्यते । वयं पूत्कुर्महे तेन भूयो भूयस्तवाग्रतः ॥ १५॥ स्वामिन्ननन्तफलकल्पतरोऽभिराम चन्द्रावदातचरिताश्चितविश्वचक्र !। शक्रस्तुताघिसरसीरुह ! दुःस्थसार्थे देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १६ ॥ [७२ ] क्षमाभृतेऽर्हते तस्मै नमो विस्मयवेश्मने । जाड्यतापहरी यस्मात् प्रादुरास सरस्वती ॥ १ ॥ विस्मयाय परं तेषां येषां त्वं नासि संस्तुतः । चित्राय तारकास्तेषां साक्षाद् येषां न भानुमान् ॥ २ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy