________________
( १७८ ) जैनस्तोत्रसन्दोहे [श्रीरामचन्द्रदधानो यामिमां मुद्रामन्त्यजोऽपि विलज्जते ।
देवस्य पूजयन्तस्तां विलीयन्ते न किं जनाः ॥ ५ ॥ हराकारोऽपि चेद् याति पूज्यतां महतामपि ।
उपस्थाच्छादनक्लेशस्ततो लोकस्य दुर्जनः ॥ ६ ॥ निमील्य नेत्रे विद्वांसो द्वयं निश्चिन्वतामिदम् । • मुक्तरुपायास्त्वन्नीतौ परनीतौ तु संसृतेः ॥ ७ ॥ देव ! यद्यस्ति देवस्य भवतोऽन्यस्य कस्यचित् । । देवलक्षणलेशोऽपि प्रमाणं जगती तदा ॥ ८ ॥ पन्थानौ द्वाविमौ देवनरकाव्यभिचारिणौ ।
अन्येषु प्रीतिलेशोऽपि द्वेषलेशोऽपि तु त्वयि ॥ ९ ॥ कृपाऽपि कल्पते दिष्टया त्वदन्यैः पापजन्मने । १ . दहन्ति वीरुधोऽम्भांसि चित्रासु धनजान्यपि ॥ १० ॥ सर्वस्यात्मा महांस्तेन शम्भुः स्त्रीशस्त्रवानपि ।
देवत्वमन्यतामन्ये मन्यन्ते तस्य किं पुनः ॥ ११ ॥ प्रतीक्ष्य नृत्यतो वीक्ष्य विलज्जेऽन्तः परानपि ।
स्वयं तु केऽपि नृत्यन्ति देवाः सन्तोऽपि कौतुकम् ॥१२॥ न सूत्रयसि विश्वानि न नृत्यसि न गायसि ।
किञ्चिन्न दत्से नादत्से ततः किं मन्यसे जडैः ? ॥ १३ ॥ चाक्षुषानपि पश्यन्ति न ये भावान् यथास्थितान् । १: : अतीन्द्रियं भवन्तं ते कथं पश्यन्तु तामसाः ॥ १४ ॥ स्नीशस्त्रगीतनृत्तादि यत् कुत्सायै महात्मनाम् । । तदेव येषां पूजायै तेभ्यो भद्रं हितं नमः ॥ १५ ॥