________________
mms
विरचिताः ] साधारणजिनस्तवाः (१७७) योषितां न यथा कोऽपि स्वकीयः कुटिलात्मनाम् ।
तथा विरक्तचित्तस्य त्रातरस्तु ममान्वहम् ॥ १२ ॥ दृष्टयाऽप्याजन्म सर्वेषां यथा भ्रान्तिनभो नतिः ।
तथा कालं प्ररूऽढापि तत्त्वक्लप्तिः कुतीर्थिनाम् ॥ १३ ॥ मम त्यक्तान्यकृत्यस्य नासाग्रन्यस्तचक्षुषः । .. अस्तु पूर्वाह्नमध्याह्नसायाह्नेषु त्रयि क्षणः ॥ १४ ॥ किश्चित् कारुण्यमास्थाय प्रसीद जगतां पते !। पचेलिमानि जायन्ते यथैनांसि चितान्यपि ॥ १५ ॥ स्वामिन्ननन्तफलकल्पतरोऽभिराम
चन्द्रावदातचरिताश्चितविश्वचक्र ! । शक्रस्तुताङ्घिसरसीरुह ! दुःस्थसार्थे
देव ! प्रसीद करुणां कुरु देहि दृष्टिम् ॥ १५ ॥
[७० ] अनाधेयमनाधारमसहायमनायकम् । ___ अशात्रवममित्रं च नमस्यामो जिनेश्वरम् ॥ १ ॥ केवलं स्तोत्रमर्हन्ति दैवतेसु हरादयः ।
सर्वथा कुत्सिताचारैरपि यैर्मोहितं जगत् ॥ २ ॥ शासितारः स्वयं येषां रागान्धमनसः सदा ।
विषयेषु विरज्यन्ते यत् ते तन्नाथ ! नौचिती ॥ ३ ॥ उपालभामहे यद्वा त्वदन्याराधिनो मुधा।
अयं हि पन्थाः सिद्धो यन्न देवचरितं चरेत् ॥ ४ ॥