SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ विरचित: अन्नामसहस्रसमुच्चयः . श्रीशः श्रीन्द्रः शुभः सुश्रीरत्तमश्रीः श्रियः पतिः । श्रीपतिः श्रीपरः श्रीपः सच्छीः श्रीयुक् श्रिया श्रितः ॥ ५ ॥ ज्ञानी तपस्वी तेजस्वी यशस्वी बलवान् बली। दानी ध्यानी मुनिर्मोनी लयी लक्ष्यः क्षयी क्षमी ॥ ६ ॥ लक्ष्मीवान् भगवान् श्रेयान् सुगतः सुतनुर्बुधः । बुद्धो वृद्धः स्वयंसिद्धः प्रोचः प्रांशुः प्रभामयः ॥ ७ ॥ ॥ इति श्रीअर्हनामसहस्रसमुच्चये नवमशतप्रकाशः ॥९॥ आदिदेवो देवदेवः पुरदेवोऽधिदेवता । युगादीशो युगाधीशो युगमुख्यो युगोत्तमः ॥ १॥ दीप्तः प्रदीप्तः सूर्याभोऽरिघ्नोऽविनोऽधनो धनः । शत्रुघ्नः प्रतिघस्तुङ्गोऽसङ्गः स्वङ्गोऽप्रगः सुगः ॥ २ ॥ स्याद्वादी दिव्यगीर्दिव्यध्वनिरुद्दामगीः प्रगीः। पुण्यवागेहवागर्द्धमागधीयोक्तिरिद्धगी। ॥ ३ ॥ पुराणपुरुषोऽपूर्वोऽपूर्वश्रीः पूर्वदेशकः । जिनदेवो जिनाधीशो जिननाथो जिनाग्रणीः ॥ ४ ॥ शान्तिनिष्ठो मुनिज्येष्ठः शिवतातिः शिवप्रदः । शान्तिकृत् शान्तिदः शान्तिः कान्तिमान् कामितप्रदः ॥ ५ ॥ श्रियां निधिरधिष्ठानमप्रतिष्ठः प्रतिष्ठितः । सुस्थिरः स्थावरः स्थाष्णुः पृथीयान् प्रथितः पृथुः ॥ ६ ॥ १ पर्यवाग्.
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy