SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ५४ श्रीमत्सूराचार्यविरचितम् आरम्भान्तरमन्तरे गुरुतरं गेहाद्यसद्गोचरं मुञ्चत्यत्र समग्रमग्रिमगुणग्रामं मुनेर्मन्यते । मान्यं सोऽन्यगुणान्तरं च लभते छिन्द्यात् क्वचित् संशयं दुष्टा तेन न वन्दना यदि वदेद दाने समाधिः समः (१)। ९८॥ वन्दनादिगुणानेतानन्यूनानभिवाञ्छता । दानं विशेषतो देयं यत् पर[७२-२]स्थानकारणम् ॥९९।। मुनीनां ज्ञानादौ भवति बहुमानः प्रकटित स्तदन्येषां मार्गो जिनवचन भक्तिः परहित म् धनेऽनास्थाभावो गुरुपुरुषकृत्यानुकरणं कियन्तः कथ्यन्ते वितरणगुणाः सिद्धयनुगुणाः ॥१००१ धर्मे स्थैर्य स्यात् कस्यचिच्चञ्चलस्य प्रौढं वात्सल्यं बृहणा सद्गुणानाम् । दानेन श्लाघा शासनस्यातिगुर्वी दातृणामित्थं दर्शनाचारशुद्धिः ॥१०१।। औदार्य वयं पुण्यदाक्षिण्यमन्यत् संशुद्धो बोधः पातकात् स्याज्जुगुप्सा । आख्यातं मुख्यं सिद्धधर्मस्य लिङ्गं लोक[७३-१]प्रेयस्त्वं दातुरेवोपपन्नम् ॥१०२॥ तीर्थोन्नतिः परिणतिश्च परोपकारे ज्ञानादिनिर्मलगुणावलिकाभिवृद्धिः । वित्तादिवस्तुविषये च विनाशबुद्धिः सम्पादिता भवति दानवताऽऽत्मशुद्धिः ॥१०३॥ सीदन्ति पश्यतां येषां शक्तानामपि साधवः । न धर्मो लौकिकोऽप्येषां दूरे लोकोत्तरः स्थितः ॥१०४॥ सीदन्तो यतयो यदप्यनुचितं किञ्चिज्जलान्नादिकं स्वीकुर्वन्ति विशिष्टशक्ति विकलाः कालादिदोषादहो। मालिन्यं रचयन्ति यज्जिनमतस्यास्थानशय्यादिना श्रा[७३-२]द्धानामिदमेति दूषणपदं शक्तावुपेक्षाकृताम् ॥१०५।। अपात्रबुद्धिं ये साधौ लिङ्गिमात्रेऽपि कुर्वते । नूनं न पात्रताऽस्त्येषां यथात्मनि तथा परे ॥१०६॥ ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002612
Book TitleDanadiprakarana
Original Sutra AuthorSuracharya
AuthorAmrutlal Bhojak, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages78
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy