SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सप्तमोsवसरः जिनागमं येsaधिगम्य सम्यग् गम्भीर [५९ - १] मात्मम्भरयो वराकाः । दानं निषेधन्ति वचो न कर्णे जपानां करणीयमेषाम् ॥१॥ मी जानम्ति जिनागमं जडधियो नो सौगताद्यागमं नो लोकस्थितिमुज्ज्वलामृजुमहो व्यामोहयन्तोऽन्वहम् । दातृणामथ गृह्णतामसुमतां कृत्वाऽन्तरायं तरां मिथ्यादेशनया नयन्ति नरकं लोकं व्रजन्ति स्वयम् ||२|| महानुभावा भवमुत्तरीतुं प्राणैरपि प्राणिगणोपकारम् । कुर्वन्ति केचित् करुणार्द्रचित्ता चन्द्रा इवाह्लादितजीवलोकाः ॥३॥ अन्ये शुचैव परितापितविश्वविश्वा वैश्वानरा इ[५९ - २ ] त्र नरा निरये रयेण । गन्तुं द्वयापकृतयो कथयन्ति मिथ्या किं कुर्महे वयमहो विषमो हि मोहः ॥ ४॥ तथापि किञ्चित् कथयामि युक्तं मध्यस्थ लोकस्य स्वल्पयुक्तम् । मोहव्यपोहाय विहाय कृत्यं Jain Education International 2010_05 स्वार्थात् परार्थो महतां महिष्ठः ||५|| यावद्वर्षं ननु जिनवृषा वर्षति स्वर्णवर्षं हर्षोत्कर्ष प्रणयिशिखिनां कुर्वदुर्वीगतानाम् । नो सन्दिग्धं न च विरचितं केनचिन्मादृशेदं प्रोक्तं प्रोच्चैरविचलवचो विश्रुतैः श्रीश्रुतज्ञैः ॥६॥ निष्क्रान्तिकाले सकला जिनेन्द्रा यादृच्छिकं दा[६०-१] नमतुच्छवाञ्छाः । यच्छन्ति विच्छिन्नदरिद्रभावं मेघा इवाम्भो भुवि निर्विशेषम् ॥७॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002612
Book TitleDanadiprakarana
Original Sutra AuthorSuracharya
AuthorAmrutlal Bhojak, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages78
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy