________________
श्रीमत्सूराचार्यविरचितम् ज्ञेये ज्ञात्वा ज्ञानतो ज्ञानवन्तो
हेयं हित्वा पूजनीया जनानाम् । सजायन्तेऽत्रैव जन्मन्यजत्रं
पापघ्रसादन्यजन्मन्यवश्यम् ॥१०॥ कल्याणकलापकारणं ज्ञानं सर्वविपत्तितारणम् । [९-२] मिथ्यात्वादिविरोधिवाधनं सिद्धेः सिद्धं साधु साधनम् ॥११॥ यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुते क्षणात् । ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥१२॥ [भगवद्गीता ४.३७]. अज्ञानो यत् कर्म क्षपयति बहुवर्षकोटिभिः प्राणो । तज्ज्ञानी गुप्तात्मा क्षयत्युच्छ्वासमात्रेण ॥१३॥ वाचकमुख्योऽप्याख्यत्सज्ज्ञानादीनि मुक्तिमार्ग इति । न च मार्गणीयमपरं परमस्ति महात्मनां मुक्तेः ॥१४॥ यो दिशति मुक्तिमार्ग परोपकारी ततोऽपरो न परः । परमपदानन्दादिव भवभवनसमुद्भवान्नन्दः ॥१५॥ समीहमानैः स्वपरोपकारं
ज्ञानं सदा देयमचिन्तयद्भिः । परिश्रमं श्रीश्रमणैः स्वकीय
कृत्यान्तरं वा सुतरामतन्दैः ॥१६॥ नास्मिश्चित्तं चरति सुचिरं चिन्तनीयान्तरेषु
प्रायः [कायः प्र][१०-१]चयति न वा दुष्टचेष्टामनिष्टाम् व्यग्रं वक्रं वदति न परं येन सावधजातं
धर्मादानं तदिदमुदितं ज्ञानदानं प्रधानम् ॥१७॥ ज्ञानमेकमनेकेषामेककाल [उपक्रियाम् । करोति याति नो हानिं दत्तं वर्धेत कौतुकम् ॥१८॥
१ 'कुरुतेऽर्जुन' इति भगवद्गीतायाम् ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org