SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ भोग्या योग्या साधु बन्धूपयोग्या लोके श्लाघ्या श्लोकधर्मैक हेतुः जाये जायते पुण्यभाजां श्रीः कुर्वाणा निर्वृतिं निर्विवादा ||३४|| स्वपरोपकारनिपुणाः पुरुषार्थपरायणाश्चिरं सुखिनः । जीवन्ति स्पृहणीयं धर्मेण नराः सुधर्माणः || ३५॥ सत्तारुण्यं तारलावण्य पुण्यं पीयूषं वा नेत्रपात्रप्रपेयं । - दानादिप्रकरणम् स्त्रीपुंसानां कामदेवैकधाम प्राज्ञाः प्राहुर्धर्मबीजप्ररोहं ॥३६॥ - [६ - २ ] रिपुबलमखिलं खेलया खण्डयन्ति प्रोदण्डैर्मुण्डखण्डैरिह रणधरणीमण्डलं मण्डयन्ति । पादाङ्गुष्ठस्य कोटचा यदतुलमचलं लीलया चालयन्ति धर्मस्या [चिन्त्यश]क्तेस्तदपि विलसितं साधवः साधयन्ते ||३७|| कैलासः किल रावणेन तुलितो बाहुद्वयेनाचल: श्रीगोवर्धनभूधरो मुरजिता तूर्ण च तीर्णोऽर्णवः । चक्री बाहुबलेन बाहुबलिना भग्नो विलग्ने रणे किं नो निर्मलधर्मनिर्मितिरियं निर्मापयत्यद्भुतम् ||३८|| द्वात्रिंशत्सत्सहस्त्रैः सविनयविनतैः सेवितो भूपतीनां द्विस्तावद्भिः सुरस्त्रीविसरविजयिनां कान्तकान्ताजनानाम् । रत्नैर्द्विःसैप्तसङ्घचैरनिधनसुधनैः सान्निधानैर्निधानै मर्त्याना मूर्धवर्ती मणिरिव सुकृती वर्तते [ ७-१] चक्रवर्ती ॥ ३९ ॥ पूर्वार्जितोर्जितशुभेन भवन्ति भूपा: श्वेतातपत्र चमरादिविचित्रचिह्नाः । सामन्त सन्ततिसमानतपादपद्मा देवा इवातिरुचिरा स्फुरितोरुपद्माः ||४०|| १. कृष्णेन ॥ १. चतुःषष्टिसह सैरित्यर्थः ॥ २. चतुर्दशभिः ॥ ३. स्फुरितप्रौढलक्ष्म्यः ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002612
Book TitleDanadiprakarana
Original Sutra AuthorSuracharya
AuthorAmrutlal Bhojak, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages78
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy