________________
तिलकमञ्जरीसारः।
राजाऽप्यूचे कपालानां न कृतः संग्रहो मया । जातु युष्मादृशामेभिः काय भावीत्यजानता ॥८१॥ अन्यदन्वेषयाम्यल्पविलम्बं सहसे यदि । नो चेन्मदीयमेवेदमङ्गीकुरु शिरोऽम्बुजम् ॥८२॥ निर्वर्णय परं सन्ति लक्षणानीह कानिचित् । वेतालोऽथ तदालोक्य साधु साध्विदमभ्यधात् ।।८३॥ नृत्यन्नथ कपालस्य कर्णवत्तौ स्वकर्तिकाम् । घृष्ट्वोपनिन्ये भूपाय सोऽप्युवाच निशाचरम् ॥८४॥ आस्तामिदं हि दिव्यास्त्रं निस्त्रिंशोऽपि तवेप्सितम् । कतैत्युत्क्वा सहर्षस्तमाचकर्ष कुशास्तरात् ॥८५॥ देवीं प्रणम्य वामाग्रहस्तग्रस्तोर्ध्वमूर्द्धजः । खड्गं व्यापारयामास कण्ठे दक्षिणपाणिना ॥८६॥ अर्द्धकृत्ते च कण्ठेऽस्य सहसैव महीभुजः । अभवच्चित्रविन्यस्त इवाकिञ्चित्करः करः ॥८७॥ यावत् साहसिकश्छेत्तुं यतते वामपाणिना । तावन्मूर्छाश्लथीभूतसर्वाङ्गस्तरसाऽपतत् ॥८८॥ लब्धसंज्ञः सुरस्त्रीणामथ हाहावं नृपः । शुश्रीव मन्दरक्षुब्धक्षीरोदध्वनिसोदरम् ॥८९॥ ततश्चतुर्भिर्बिभ्राणां पाणिभिः कङ्कणावलिम् । उल्लासयन्ती कल्लोलांश्चलद्धवलचामरैः ॥९०॥ फेनं वहन्ती सर्वाङ्गलग्नमुक्ताविभूषणैः । सूर्यान्द्रमसौ रत्नकुण्डलाभ्यां वितन्वतीम् ॥११॥ रम्भादिभिः सहाम्भोधेः सम्प्रतीव विनिर्गताम् । क्षिप्तचक्षुश्च सोऽपश्यत् कमलां कमलासनाम् ॥९२॥ सतो दन्तप्रभाशुभैः करस्थकलसामृतैः । स्नपयन्ती नृपस्याङ्गं व्याजहार हरिप्रिया ॥९३॥ तुष्टाऽस्मि साहसेनालमालपन्त्यामिति श्रियम् ।
भूपोऽभाषिष्ट तुष्टा. चेच्छेत्तुमीशं करं कुरु ॥९४।। १स्तूं। २ त्यस्का । ३ च्छे। १ ग। ५ स्त्रा। ६ तधः। ७ फ।
ती। ९ या।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org