________________
तिलकमञ्जरीसारः।
[ ग्रन्थकर्तुः स्ववृत्तनिवेदनम् ] अणहिल्लपुरख्यातः पल्लीपालकुलोद्भवः । जयत्यशेषशास्त्रज्ञः श्रीमान् सुकविरामनः ॥१॥ सुश्लिष्टशब्दसन्दर्भमद्भुतार्थ रसोर्मि यत् । येन श्रीनेमिचरितं महाकाव्यं विनिर्ममे ॥२॥ चत्वारस्तनुजास्तस्य ज्येष्ठस्तेषु विशेषवित् । अनन्तपालश्चके यः स्पष्टां गणितपाटिकाम् ॥३॥ धनपालस्ततो नव्यकाव्यशिक्षापरायणः । रत्नपालेः स्फुरत्प्रज्ञो गुणपालश्च विश्रुतः ॥४॥ धनपालोऽल्पतुश्चापि पितुरश्रान्तशिक्षया । सारं तिलकमञ्जाः कथायाः किञ्चिदग्रथत् ॥५॥ इन्दु-दर्शन-सूर्याङ्क(१२६१)वत्सरे मासि कार्तिके । शुक्लाष्टम्यां गुरावेष कथासारः[:] समर्पितः ॥६॥ ग्रन्थः किञ्चिदभ्यधिकः शतानि द्वादशान्यसौ । वाच्यमानः सदा सद्भिर्यावदकं च नन्दतात् ॥७॥
॥ मङ्गलमस्तु । श्रीरस्तु॥
१ ला। २
तृ । + Satisfied with small achievements
Jain Education International 2010 05
For Private & Personal Use Only
www.jainelibrary.org