________________
८४
श्रीपल्लीपालवं शोयधनपालविरचितः
मा विधात्वं मुधा खेदं मयेदं सखि ! सुश्रुतम् । सा निजं व्याजहाराथ प्रतीहारं महोदरम् ॥१३०॥
स्वया मुक्तप्रमादेन प्रासादेऽमुत्र तत्र च । उपद्रवः क्षुद्रजनाद् रक्षणीयः प्रतिक्षणम् ॥१३१॥
इत्युक्त्वा सत्वरं प्राप निजमन्दिरमिन्दिरा | प्रियङ्गुसुन्दरी प्रेयःसङ्गमं नासदत् पुनः ॥ १५२ ॥ एषा तथाऽप्यसंञ्जातविद्वेषा सर्वविद्विरि । पुण्यमाव पूर्णायुस्त्यक्तवैक्रियविग्रहा ॥१३३॥
विजयार्थेऽवतीर्याप विद्याधरधरापतेः ।
पुत्रीत्वं तामवेहि लमिमां तिलकमञ्जरीम् ॥१३४॥ असौ दृढपतिप्रेम संस्कारा पुरुषान्तरे । अस्थादस्थापित प्रीतिश्विरं प्राचि दिने पुनः ॥ १३५ ॥
दृष्ट्वा हारमिमं जातस्मृतिर्मोहं जगाम च । कण्ठे प्रेयानधाद् गच्छन्नित्यमुं च न मुञ्चति ॥ १३६ ॥
अथ प्रभो ! स ज्वलनप्रभः कथमभूदिति । सहर्ष पर्षदा पृष्टः स महर्षिरभाषत ॥ १३७॥
अत्रैर्वै भरते शकावतारे हारमादरात् । साकेतपतये मेघवाहनाय वितीर्य सः ॥ १३८ ॥
अगान्नन्दीश्वरे तत्र निजमित्रं सुमालिनम् । गिरा संवेगदायिन्या जिनधर्मम [बोध ] यत् ॥ १३९॥
पुनरेत्य मर्त्यलोक भरतैरावतादिषु ।
अर्हतामानैर्च भक्तचा सप्तत्याभ्यधिकं शतम् ॥१४०॥ प्राप्ति चरमदेहस्य खेचरेन्द्रश्रिया सह । जन्मान्तरेऽर्जयित्वाऽसौ पूर्णायुरवतीर्य च ॥ १४१ ॥ मयैव दत्तविद्यस्य साकेतपुरभूभृतः ।
तस्यैवं तनेयत्वेन बभूव हरिवाहनः ॥ १४२॥
१द । २ मं । ३ र्द्ध । ४ त । ५ मा ।
Jain Education International 2010_05
[ प्र०
६ । ७ सो । ८ तत । ९ म ।
For Private & Personal Use Only
www.jainelibrary.org