________________
महोपाध्याय राजसोमाष्टकम्
३०५
महोपाध्याय राजसोमाष्टकम्
श्रेयस्कारि सतां यदाशु चरितं, सामोदमाकर्णितं ।
. कर्णाभ्यां सततं मतं मतिभृतां, सद्भूत भावान्वितम् ।। बिभ्राणास्तदनन्त कांति कलिताः कारुण्य लीलाश्रिताः ।
श्रीमत्पाठक राजसोमगुरवस्ते संतु मोदप्रदाः ॥१॥ येषां चारु मुखोद्गताः सुललिता वाचो निशम्योल्लस
द्र.पं वीक्ष्य पुनः प्रमोद जनकं लावण्य लोलागृहम् ।। प्राप्तानंद कदंबकेन मनसा स्वस्य श्रुतीनां दशा
मष्टानांच विनिर्मितं फल युतां मेने ध्रुवं शाश्वतः ॥२॥ चित्तं सर्व सुपर्वणामपि विशद्वाचस्पतेर्भाषितं ।
माधुर्येण तिरश्चकार सहसा नादीनवं यद्वचः ॥ शास्त्रासक्तधियां सदैव सुधियां चेतश्चमत्कारकृत् ।
दुर्वादि द्विरदौघ दर्प दलने शार्दूल विक्रीडितम् ।।३।।शा० छंद।। प्राप्त प्रदोषोदयमंकगर्भितं ? चंद्र दधच्चारु तयैकमम्बरम् । आमोद संदोह मनारत मत चैतन्य भाजां वितनोति चेतसि
(यदितिशेषः) ॥४॥ संभाव्यते तन्मधुरं निराश्रवं नित्योदर तद्वितयं विराजते । श्रीराजसोमोत्तम नाम विश्रुते यत्रास्पदे किं खलु तस्य वर्णनम् ।।५।। वंदे समयावयवानवद्यतां वीक्ष्यानुरक्त रिव पेशलगुणैः । हित्वामिथो द्वेषमलंकृत स्थितीन योगीन्द्र वंशाहितलक्षणान्गुरून् ॥६॥
इन्द्रवंशावृत्तम् ॥
२०
Jain Education International 2010_05 For Private & Personal Use Only
www.jainelibrary.org