________________
भगवतीचूर्णिः
१०९ यस्याः संख्यायाः सः कडजुग्मबादरः । तत् संख्याः प्रमाणाः कुतः यथाष्टदश कडयुग्मकलिर्यस्याः संख्यायाश्चतुष्केणापहारेण एकाग्रे भवन्ति ? या कडयुग्मकलिः तत् संख्या प्रमाणाः कुतः यथा सप्तदशकोंग कडयुग्मा यस्याः संख्यायाश्चतुष्केणापहारेणापहृते यावन्तोपहारश्चतुष्ककास्तेषां पुनश्चतुष्केणापहारेण त्रिरग्रता भवति । एते (षां) योगः कडयुग्मः । यथा द्वादश द्वादशानां चतुष्केणापहारेण लब्ध्वा अपहारचतुष्ककास्त्रयः तेषां त्रयाणां चतुष्ककेनान्येन पुनहियमाणे त्रीण्यग्रे भवन्ति । यस्याः संख्याया एवमपहारः । अनेनापहारेणोपलक्षिता कुत उत्पद्यन्ते ते योगतो योगः। यथा पंचदश पंचदशानां चतुष्केणापहारेण त्रयः शेषा लब्धास्त्रयः । ये ते लब्धास्तेषां पुनश्चतुष्कापहारः क्रियमाणस्त्रिरग्रः । अपहारश्चतुष्ककास्त्रिरग्राः पूर्वसंख्या च त्रिरग्रतो एवंविधा संख्या तत् प्रमाणा कुत उत्पद्यन्ते ? तेयोगबादर यथा चतुर्दश चतुर्दशानां चतुष्केणापहारेण द्वावग्रे ये च भागापहृतचतुष्कका । यथा त्रयः तेषां पुनश्चतुष्केणापहारेण त्रिरग्रता पूर्वस्य च राशेद्वावग्रेय एवंविधो राशिस्तत् संख्या प्रमाणा कुत उत्पद्यन्ते । एवं नेयं । छ।
येषां प्रथमश्च समयः संख्यया च कडयुग्मकडयुग्मास्ते कुत उत्पद्यन्ते ? ते द्वित्र्यादि वा समयाः येषां उत्पन्नानां संख्यया च कडयुग्मं कडयुग्मास्ते कुतः येषां वर्तते ? चरमसमयः संख्यया च कडयुग्माः अचरमो वा समयः । यदुक्तं द्वौ त्रयो वा चत्वारो वा येषां शेषः सम्यग् एव कडयुग्म कडयुग्मास्ते कुतः पढम समयकडजुम्मेंगिदियाणं कतो उववजंति । कडयुग्मसंख्या उपपातेन प्रथममनुभवन्ति । प्रथमश्च समयो वर्तते ते एकेन्द्रियाः कुत उपद्यन्ते ? न प्रथम: समयो वर्तते । कडयुग्मकडयुग्मसंख्यां प्रथमेवानुभवन्ति । तेषां वा चरमसमयकडयुग्मकडयुग्मसंख्याया प्रथममनुभवन्ति एवमचरमः । इदानीं चरमाः कडयुग्माकडयुग्मा संख्यामनुभवन्ति । चरमश्च समस्त्यं कुतः ।छ। एवमचरम: एगेंदियमहाजुम्म सतं ।छ। शेषाणि शतानि अनेनैव लक्षणेन गमनीयानि ।
लोगागासपदेसा धम्माधम्मेगजीवदेसा य । दव्वट्ठिता णिगोता पत्तेया तेसिं जीवाणं ॥१॥ ठिति-बंधज्झवसाणा अणुभागा जोगच्छेदपलिभागा। दोण्ह य समाण समया असंखपक्खेवया दसउ ॥२॥ सिद्धा णिओगजीवा वणस्सई कालपुग्गला चेव । सव्वमलोगागासं छप्पएणंतपक्खेवा ॥छ॥छ।। इति श्री भगवतीचूर्णि परिसमाप्तेति ॥छ।छ।। इति भद्रम्
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org