________________
अन्यशासनानृतत्वोक्तिः] द्वादशारनयचक्रम्
(एतदिति) एतदन्यतरैकान्तशास्त्रप्रबन्धस्तु विघटितार्थः,-एतेषामुक्तानां विध्यादिनयानां परस्परभिन्नप्रस्थानानां सर्वशास्त्रमतानुवृत्त्या संहृत्योक्तानां सदसत्पक्षद्वयतया द्रव्या पर्यायार्थ] द्वित्वानतिवर्तिनां तयोरन्यतरस्यैकान्तस्य शास्त्रस्य प्रबन्धः-पुरुषपरम्परयाऽऽगमाव्यवच्छेदपरम्प[र]या सदेवासदेव नित्यमेवानित्यमेवेत्यादिः विघटितार्थ इति पक्षार्थः, शास्त्रवचनं सांख्यादीनां दूष्याणामेव लौकिकघटभवत्यादिप्रयोगेभ्यो दृष्टान्तभूतेभ्य उत्कृत्य पक्षीकरणार्थ मा भूद् दृष्टान्तदासन्तिकयोरप्रविवेक इति, प्रस्तुतवस्तु- । विच्छेदपरमार्थत्वादिति हेतुः, प्रस्तुतं वस्तु-दुःखविमोक्षोदेशसाध्यसाधनसम्बन्धविधानं प्रमाणमेव सिद्धिनिरूपणञ्च, तद्विच्छेदो व्याघातः विघ्नोऽन्यथाभावः, तदनिर्वाहः, महासरःपुण्डरीकजिघृक्षार्थप्रवृत्ताप्राप्तपकनिममपुरुष[व]त् स परमार्थो यस्यैतयोर्द्रव्यपर्यायार्थयोरन्यतरैकान्तशास्त्रप्रबन्धस्य[स]वस्तुविच्छेदपरमार्थःस्वाभिप्रेतविपर्ययहेतुः, तद्भावात् प्रस्तुतवस्तुविच्छेदपरमार्थत्वात् विघटितार्थः, किमिव ? दश दाडिमानी त्यादिवाक्यवत्-यथेदमसम्बद्धावयवार्थमेकवाक्यभावानापत्तेर्विघटितार्थ प्रस्तुतवस्तुविच्छेदपरमार्थत्वात् तथो- 10 क्तद्रव्यार्थपर्यायार्थान्यतरविकल्पैकान्तशास्त्रप्रबन्धो विघटितार्थ इत्येषोऽर्थो भावित एवातीतसमस्तनयचक्रशास्त्रेणेति ।
एवमनेन समस्तेन ग्रन्थेनैतदभिहितं-विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत जैनादन्यच्छासनमनृतम् , जैनमेव शासनं सत्यम् , विधिनियमभङ्गवृत्त्यात्मकत्वात् , भवतिवत्, घटवद्वा, एकमेव वा साधनम् , तत्साधर्म्यवैधाभ्यां सर्वैकान्तवादिदूषणायानेकान्तवा-15 दिपक्षसाधनाय च प्रभवति, एवञ्च कृत्वा विधिनियमभङ्गव्यतिरिक्तत्वादिति सिद्धे वृत्तिवचनमशेषभङ्गैकवाक्यतायामेव प्रतिभङ्गमपि वृत्तिरिति ख्यापनार्थम् , किमुक्तं भवति? स्याद्वादतुम्बप्रतिबद्धसर्वनयभङ्गात्मिकैकैव वृत्तिः सत्या, रत्नावलीवत्, अन्यथा वृत्त्यभाव एव, तथैव च सर्वैकान्तप्रक्रमः। दशनयाः परस्परविभिन्नार्थविषयाः निखिलशास्त्रमतानुसारेण सङ्ग्रह्योक्ताः, तेषां केचित् सत्पर्श केचिदसत्पक्षं प्रतिपादयन्ति, अत- 20 एव ते द्रव्यार्थपर्यायार्थद्वयानतिवर्तिनः, तयोर्दव्यार्थपर्यायार्थयोरन्यतरस्य एकान्तभूतस्य शास्त्रस्य प्रबन्धः-प्रतिपाद्योऽर्थः स च पुरुषपरम्परया समायातः आगमपरम्परया वाऽव्यच्छेदेन समायातः सदेव, असदेव, नित्यमेव, अनित्यमेव वेत्यादिरूपः विघटितार्थः-असङ्गतार्थ इति प्रतिज्ञेयाचष्टे-एतेषामुक्तानामिति । अत्र शास्त्रग्रहणप्रयोजनमाह-शास्त्रवचन मिति, सांख्यवैशेषिकादीनां दूष्याणां वचनमेव शास्त्रवचनं तदेव पक्षघटकं न तु लौकिको घटभवत्यादिप्रयोगः, तस्य दृष्टान्तत्वादन्यथा दृष्टान्तपक्षयोविवेको न स्यादिति भावः । विघटितार्थत्वे हेतुमाह-प्रस्तुतेति । प्रस्तुतं वस्तु दर्शयति-दुःखविमोक्षेति, दुःखाद्वि- 25 मोक्षः-पृथग्भावः निवृत्तिः, तदुद्देशेन साध्यसाधनसम्बन्धविधानं इदकाम इदं कुर्यादित्यादि, प्रमाणं वा प्रकृतं वस्तु, सिद्धिनिरूपणं वा, एतस्य विच्छेदो-व्याघातो विघ्नोऽन्यथाभावः अनिर्वाहो वा, यथा महति सरसि यत्पुण्डरीकं सिताम्भोजः तद्हणेच्छया प्रवृत्तः किन्त्वप्राप्तं पुण्डरीक खश्च महति पङ्के निमग्न एवंविधपुरुषस्य प्रस्तुतवस्तुविच्छेद एव परमोऽर्थो जातः, एवमेतद्रव्यार्थपर्यायार्थान्यतैरकान्तशास्त्रप्रबन्धस्य प्रस्तुतवस्तुविच्छेद एव परमार्थः, अत एव च विघटितार्थ इति भावः । दृष्टान्तमाह-दश दाडिमानीति। दृष्टान्तं घटयति-यथेदमिति, दश दाडिमानि षडपूपाः कुण्डमजाजिनमित्यादि वाक्यानि तद्धटकपदानामसम्बद्धार्थत्वादेकवाक्य-30 तामनापन्नानि विघटितार्थानि प्रस्तुतवस्तुविच्छेदपरमार्थत्वात्तथोक्तशास्त्रप्रबन्ध इति, प्रस्तुतविच्छेदपरमार्थ त्वं च द्वादशेऽस्मिन्नयचक्रशास्त्रे तत्र तत्र निरूपितमेवेति भावः । अथैतन्नयचक्रशास्त्रसारार्थमाह-एवमनेनेति । जैनादन्यच्छासनं अनृतं विधिनि
१ सि.क्ष. छा. डे. उत्कलपक्षी० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org