________________
९९६
न्यायागमानुसारिणीव्याख्यासमेतम् । [उभयनियमारे किं तर्हि प्रतिपत्तव्यं आगममात्रं त्वेतत् । यथोक्तं 'जो हेउवायपक्खंमि हेउओ आगमे य आगमिओ। सो ससमयपण्णवओ सिद्धतविराहिओ इयरो' ॥ (संम० कां० ३ गा० ४५) त्ति, ।
पदसमूहो वाक्यम् , स चानियतानुपूर्व्यः पदसमूहः, तद्यथा-देवदत्त! गामभ्याजेति, कदाचिच्च देवदत्त ! गामभ्याज शुक्लाम् , देवदत्त ! महिषी गृष्टिं कल्याणीमिति पात्रमाहर, 5 आहर पात्रं सौवर्णश्चेत्यादि, सर्वागमसमूहात्मकाऽऽर्हतागमो वा वाक्यम् , वाक्यार्थोऽपि तदभिधेयोऽर्थः।
पदसमूहो वाक्यमिति, स चानियतानुपूर्व्यः पदसमूहः-अनुपूर्वभाव आनुपूयं, तदनियत यस्य सोऽनियतानुपूर्व्यः पदसमूहः तद्यथा देवदत्त! गामभ्याजेति कदाचिञ्च देवदत्त ! गामभ्याज शुक्लाम्
देवदत्त! महिषी गृष्टिं कल्याणीमिति, पात्रमाहर आहर पात्रं सौवर्णश्चेत्यादिव्याकरणसांख्यवैशेषिकबौद्धाद्यन्य10 तमग्रन्थमात्रम् , सर्वागमसमूहात्मकार्हतागमो वा वाक्यम् , वाक्यार्थोऽपि तदभिधेयोऽर्थः, उक्तः शब्दार्थः ।
अयं पुनर्नयः कान्तर्भवति द्रव्यार्थे किं पर्यायार्थे ? उच्यते
अयश्च शब्दैकदेशत्वात् पर्यवास्तिकः, परिरुपसर्गः समन्तादर्थे; अव गत्यर्थे धातुः समन्तावति, कोऽसौ ? भेदो भावोपसर्जनः, सोऽस्तीति यस्य' नयस्य मतिः स पर्यवास्तिकः ।
(अयश्चेति) अयश्च शब्दैकदेशत्वात् पर्यवास्तिकः 'मूलनिमेणं पज्जवणयस्स उज्जुसुअवयण16 विच्छेदो । तस्स उसाहपसाहा सद्दविकरपा सुहमभेदा ॥' (सं. का. १-५) इति, आर्षेऽपि सप्तनयशता
नानात् पर्यवास्तिकभेदस्य शब्दनयस्य भेद इत्यर्थः, पर्यवास्तिक इति कः शब्दार्थः ? उच्यते, परिरुपसर्गः
त्येवेति तदर्थः । किन्तर्हि विज्ञेयमर्थप्रत्यायकमित्यत्राह-आगममात्रमिति । आगमादेव गम्य एषोऽर्थ इति भावः । तत्र मानमाहयथोक्तमिति, हेतुवादगम्यमर्थ हेतुनाऽऽगममात्रगम्यञ्चार्थमागमेनैव यः प्रतिपद्यते स खसमयप्रज्ञापकः, इतरस्तु सिद्धान्तविराधक
इति भावः । वाक्यलक्षणमाह-पदसमूह इति । प्रतिनियतानुपूर्वीरहित: पदसमूहः, ईदृशानुपूर्वीविशिष्टमेव पदकदम्बकं वाक्यं 20 भवति नान्यादृशमिति नियमो नास्तीत्याह-स चेति । आनुपूर्वीनयत्याभावे निदर्शनमाह-तद्यथेति । एवंविधपदसमूहो व्याकरणसांख्यादिग्रन्थरूप इत्याह-इत्यादीति । व्याकरणसांख्यादिसर्वागमसमूहो वाक्यमित्याह-सर्वागमेति. प्रत्येकं सर्वेषा
मागमानां नयात्मकानां समूहात्मक आहेतागमो रत्नावलीवत् इति । वाक्यार्थमाह-वाक्यार्थोऽपीति. वाक्येन प्रतिपाद्योऽर्थः - वाक्यार्थ इत्यर्थः । किमयं नयो द्रव्यार्थः पर्यायार्थो वा, कस्मिन्नस्य समावेश इत्यत्राह-अयश्चेति । विधिनियमनियमनयोऽयं
शब्दनयस्यैकदेशः, अत एव पर्यायार्थेऽन्तर्गत इत्याह-अयञ्च शब्दैकदेशत्वादिति । तत्र सम्मतिगाथां प्रमाणयति-मूल26निमेणं इति । विशेषविषयकपरिच्छेदस्य ऋजुसूत्रवचनविच्छेदो मूलाधारः, ऋजुसूत्रस्य एवमयमर्थो नान्यथेति प्ररूपयतः वचनं
विच्छिद्यमानं यत् तत् मूलनिमेनम् , पूर्वापरपर्यायैर्विविक्ते एकपर्याये एव ऋजुसूत्रस्य प्ररूपयतो वचनं विच्छिद्यते, एकपर्यायस्यापरपर्यायासंस्पर्शात् , तस्य ऋजुसूत्रस्यैव शब्दसमभिरूढैवंभूतास्त्रयो विकल्पाः शाखाप्रशाखाः सूक्ष्मभेदा इत्यर्थः । आर्षमपि प्रमाणयति
आर्षेऽपीति, द्रव्यार्थपर्यायार्थनययोः प्रत्येकमार्षे सप्तशतं नया अभिहिताः तत्र पर्यायार्थिकभेदस्य शब्दनयस्य भेदोऽयमित्यर्थः । पर्मवास्तिकशब्दार्थमाह-परिरुपसर्ग इति समन्ताद्गतिमत् द्रव्यमिति व्युत्पत्त्यर्थः। समन्ताद्गतिमान् भेदो भवति, क्षणविनश्वरत्वात् स च
सि. डे. छा. इत्थथेऽपि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org