________________
जातिमद्वदपोहवत्त्वमित्युक्तिः] द्वादशारनयचक्रम् नास्ति, यत्तूक्तं सत्त्वं घटादावर्थे न पटादिषु वर्तत इति,[न]साक्षाभूटपटादिष्वसत् प्रतिक्षेपादिति, तन्न भवति, यस्मात् साक्षादवृत्त्यादिदोषजातस्य सातिशयस्योक्तत्वादस्माभिः, तदेव स्मारयन्नाह-सच्छब्दोऽपोहमात्रस्वरूपोपसर्जनं द्रव्यमाह, न साक्षादित्यादि सर्वं प्रागुक्तं जातिमद्वदपोहवानित्युपक्रम्य, तत्र च जातिमतीवापोहवत्यपि सर्वे दोषा यथा सङ्गतास्तथा प्रतिपादिता इति न पुनर्लिख्यते ।
स्यान्मतं जातिमद्वदपोहवत्त्वमण्ययुक्तमिति तदाशंक्यते
यत्तूक्तमन्यापोहवादिना परं प्रत्याशङ्कय ततः 'अद्रव्यत्वाच्च भेदाच्च' इति कारिका या च तद्भाष्ये लिखिता तद्व्याख्या नाप्यर्थान्तरापोहो नामेत्यादि यावन्नास्ति सामान्यदोष इत्यपोहपक्षे जातिमत्पक्षगतदोषाभावप्रतिपादनं विशेषदर्शनादिति, वयमत्रोत्तरं ब्रूमः-'तद्वत्त्वञ्च त्वदुक्तवत्', ननु भावान्तरतैव सामान्यवत्तव्यावृत्तेरपि, तद्वतोऽन्यप्रत्ययात्मकत्वात्, अथ स्वमते तद्रूपे न सामान्यं न व्यावृत्तिमदिति कुतस्तद्विशिष्टवस्त्वभिधानम् ? खपुष्पशेखर-10 विशिष्टवन्ध्यापुत्राभिधानवत् ।
(यत्तूक्तमिति) यत्तुक्तमन्यापोहवादिना परं प्रत्याशय-तद्यथा स्यादेतदपोहविशिष्टास्त इत्यादि यावत्तुल्यं शब्दार्थस्य समानत्वम्-शब्दस्य च समानत्वमर्थस्य चापोहपक्षेऽपीति वाक्यशेषः, इत्थं पूर्वपक्षीकृत्योत्तरमाह-ततः 'अद्रव्यत्वाच्च भेदाच्च' इति कारिका या च तद्भाष्ये लिखिता तद्व्याख्या-नाप्यर्थान्तरापोहो नामेत्यादि यावन्नास्ति सामान्यदोष इत्यपोहपक्षे जातिमत्पक्षगतदोषाभावप्रतिपादनं विशेषा- 15 दर्शनादिति त्वदभिप्रायं प्रदर्य वयमत्रोत्तरं ब्रूमः-तद्वत्त्वं च त्वदुक्तवत्-अस्य व्याख्या-ननु भावान्तरतैवेत्यादि, यदि परमताभ्युपगमात् सामान्यवत्पक्षे सत्सामान्यान्वयात् सामान्य[व]द्विशेषणस्य सामान्यस्यार्थान्तरत्वं पारतंत्र्यादि च ब्रूषे सामान्यवद्व्यावृत्तेरप्यर्थान्तरत्वं विशेषणत्वं पारतंत्र्यादि च ननु तदवस्थमेव
असन्न भवतीति न स्यादिति य आपाद्यते तन्न घटपटादिभेदान साक्षादुपादाय तत्रासत्प्रतिषेधभावस्यैकत्वादित्याशयेनाह-यत्तुक्तमिति।अपोहवादी समाधत्ते-साक्षाद्धटपटादिष्विति। आचार्य उत्तरमाह-तन्न भवतीति-असत्प्रतिक्षेपेण भेदे साक्षाद्वर्तत 20 इति यदुच्यते तन्न भवतीत्यर्थः । कारणमाह-साक्षादिति, सच्छब्दः साक्षाद्भेदेषु न वर्तत इति 'अर्थशब्दविशेषस्य वाच्यवाचकतेष्यते। तस्य पूर्वमदृष्टत्वात् सामान्यादुपसर्जनात्' इत्यादि ग्रन्थेन सविशेषमुक्तत्वादिति भावः। अथ जातिमद्वदपोहवत्त्वं यदुच्यते तन्नेत्याशङ्कतेयत्तुक्तमिति । परं प्रति कृतामेवाशङ्कां दर्शयति-स्यादेतदिति, अत्र मूलमाशयश्च न सुस्पष्टं ज्ञायतेऽतो न व्याकुर्मः। अन्यापोहवादी जातिमत्पक्षगतदोषाभावं वक्ति-अद्रव्यत्वाच्चेति मूलं मृग्यम् । आचार्य आह-यदि परमताभ्युपगमादिति सत् सत्त्ववन्मात्रार्थपक्षे मेदानभिधानमानन्त्यव्यभिचाराभ्याम्, सत्त्ववच्च सर्वभेदेष्वनुवर्तनात् सत्त्वसामान्यवत् विशेष पारतंत्र्यञ्च यदि ब्रूषे तर्हि तवाप्यपोहवतः तथात्वं स्यात् , अपोहोऽपोहवांश्च परस्पर भिन्नौ, अपोहरूपाया व्यावृत्तः व्यावृत्तिमत्प्रत्यया.. द्भिन्न प्रत्ययात्मकत्वादिति भावः । तदेव साधनमाह-तद्वत इति, सामान्यवतः व्यावृत्तिमतो वाऽन्यप्रत्ययविषयत्वात् सामान्यस्य व्यावृत्तवा इत्यर्थः । यदि व्यावृत्तिमति तद्रूपे सामान्य व्यावृत्तिवा नाभ्युपगम्यते तर्हि न तद्रूपं व्यावृत्तिमदिति तद्रूपविशिष्टवस्तुनोऽ. भिधानं न स्यात् तद्रूपस्य सामान्यरूपत्वाभावात् व्यावृत्तिमद्रूपत्वाभावाच्चासद्रूपतया खपुष्पशेखरविशिष्टवंध्यापुत्राभिधानवत्तद्रूपवि--
सि. क्ष. छा.डे. सत्वा घटादिरों न पटादिषु नवर्तत इति । २ सि.क्ष. छा. डे. शब्दाख्ये लिखित ३ सि.क्ष. छा. डे. पारतंत्र्यादिषुवन।
द्वा० न०४८ (१२५)
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org