________________
२६२
तर्कतरङ्गिणी विरुद्धप्रत्यक्षसामग्र्या एव संशयजनकत्वम्, अन्यथा विरुद्धस्मृतिसामग्रीत: संशयरूपस्मृत्यापत्तिः विरुद्धार्थशब्दयोः शाब्दसंशयापत्तिश्चेति वाच्यम् । एतन्मते इष्टापत्तेः ।
तथा च सत्प्रतिपक्षस्थलेऽपि सन्देहरूपाऽनुमितिरिति चेत्, न । तत्रानुमिनोमीत्यनुव्यवसायाभावात् । फलाभावेन निश्चिते प्रत्यक्षसामग्रीविरहसहकृतपरामर्शजन्यत्वमनुमितौ प्रयोजकम् । तथा च सत्प्रतिपक्षस्थलेऽनुमिनोमीति प्रत्ययाभावान्नानुमितिः । सन्देह इत्यनुव्यवसायाभावान्न सन्देहः । तस्मात् फलानुरोधेन विरुद्धद्वयप्रत्यक्षसामग्र्याः संशयजनकत्वम् । एतादृशी च सामग्री सत्प्रतिपक्षस्थले नास्तीति न सन्देहरूपानुमितिरिति । प्रथमपरामर्शस्य साध्यविरुद्धस्य द्वितीयपरामर्शस्य साध्यस्यानुमिति: प्रतिबध्यते । द्वितीयेन च प्रथमस्येति नानुमितिः । किन्त्वनयोः किं तत्त्वमिति जिज्ञासैव जायते इति दिक् । (VI) कालात्यययापदिष्टः ।।
बाधग्रन्थे इदं चेति यद् सदित्यत्र क्षणिकत्वाभावेन प्रत्यक्षेण गृह्यते प्रत्यभिज्ञाया इति बाधः ।
ननु कथं व्याप्यत्वासिद्धः पूर्वमुक्त इति चेत्, न । बाधस्तु पक्षवृत्तिसाध्यानिश्चयत्वेन रूपेणानुमितिप्रतिबन्धकः । व्याप्यत्वासिद्धस्तु व्याप्तिविरहज्ञानत्वेन रूपेणेति धर्मसङ्करो न दोषायेत्युक्तं क्षणिकत्वस्य प्रसिद्धिरिति क्षणिकत्वस्य साध्यस्य प्रतियोगिनः प्रसिद्धि यंदा तदा बाधः । यदा तु नास्ति तदाऽपार्थकता। अप्रसिद्धरूपो दोष इत्यर्थः । यथायथमिति तथा च पञ्चानां पक्षधर्मत्वादीनां मध्ये एकतरेणापि हीनत्वे एव हेत्वाभासत्वमित्यर्थः ।
अयं गौरिति अस्मिन् व्याप्यत्वासिद्धादिकेऽपि उपाधिरस्तीति दर्शयति सास्नोपाधिरिति यत्र यत्र गोत्वं तत्र तत्र सास्ना, यत्र यत्र पशुत्वं तत्र तत्र सास्ना नास्ति । महिष्यां व्यभिचारात् । तथा च कुत्रचिद् व्याप्यत्वासिद्धेऽप्युपाधिरस्तीति ।।
इति हेत्वाभासग्रन्थव्याख्या किञ्चित् ।
[३६] छलम् ।
___परतात्पर्येति - परस्य यस्तात्पर्यविषयीभूतः पदार्थः, तत्र शब्दसञ्चारेण शब्दस्यार्थान्तरेण कृत्वा दूषणवचनं तच्छलम् । अननुभाषणमिति वस्तुतः तच्छलं न भवति, किन्तु मिथ्याभाषणमिति भावः ।
१. B -साध्यभावनि..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org