________________
तर्कतरङ्गिणी
२४१ वदन्तीति भावनीयम् । अत्र मते दूषणमुभयत्र लक्षणास्वीकारेण गौरवमिति ।
न च सुब्-विभक्तौ न लक्षणा, अन्यथा 'ऽनुशासनं द्वितीयाषष्ट्यर्थे स्मृतौ चेति' सूत्रं व्यर्थं स्यादिति वाच्यम् । अनुशासनेन नियमकरणात् । यथा स्मृतिधात्वर्थयोगे द्वितीयायाः षष्ट्यर्थे एव लक्षणा, न तु पञ्चम्यादाविति नियमात् । तथा च सुब्विभक्तिस्थले यदनुशासनं तिष्ठति तच्च नियमार्थमेवोक्तन्यायेन ज्ञेयम् । घटपदेन घटतिरिक्तबोधजनने सर्वत्रलक्षणया घटबोधस्तु शक्य एव जन्य:-इति सुब्विभक्तावपि लक्षणा' स्वीक्रियते एवेति नियमातिरिक्तस्थले सुब्विभक्तौ लक्षणा न भवतीति सिद्धम् ।
[इत्यवयवनिरूपणम् ।
[३०] तर्कविचारः । तर्कग्रन्थमाह-तर्कस्येति अनिष्टप्रसङ्गस्तर्क इति मूलम्-अनिष्टपदेन प्रकृताभावो ग्राह्यः । तेनानिष्टेन यः सम्बन्धिनोऽनिष्टस्य प्रसङ्ग स एव तर्कः । यथा धूमोऽस्तविति । अप्रयोगकत्वशङ्कानिवारणार्थमनुकूलतर्कावतारो यथा निर्वह्निः स्यात्, निर्धूमः स्यात्' इत्यत्रानिष्टो भवति 'वल्यभावः । तेन धूमाभावः प्रसज्यते-बलादारोप्यते-इति तर्कः । एवं सर्वत्रानुमानस्थले यत्र साध्याभावेन हेतोरभावः प्रसज्यते स एव तर्कः । प्रत्यक्षस्थले चानिष्टप्रतिपादनमेव । यथाऽत्र यदि घटः स्यात्तदा भूतलमिवाद्रक्ष्यत् । अत्रेष्टो भवति घटाभावः, अनिष्टो भवति घटः । इष्टत्वं घटाभावस्य यथा मम घटाभावः प्रत्यक्षं भवतु; तदनन्तरमत्र घट इति घटाभावाभावशङ्का जाता; तत्रायमनुकूलतर्कावतार:'यद्यत्र घये भविष्यत् तदा भूतलमिवादृक्ष्यत्' इत्यनिष्टघटलक्षणस्य प्रसज्जनारोपेण तर्क:-इति प्रत्यक्षस्थलेऽनिष्टशङ्कार्थनिवर्तकत्वमेव तर्कस्येति मूलार्थः ।
स चायमिति तर्कः प्रमाणानामनुग्राहकः साक्षी भवति । यथा-'यदि निर्वह्निः स्यात् तदा निधूमः स्यात् । धूमाभाववानपि स्यादिति वह्निव्याप्य धूमवानयमिति परामर्शानन्तरं धूमस्तिष्ठतु, वह्नि र्मा तिष्ठतु-इत्यप्रयोजकत्वशङ्कानिराकरणद्वारा तर्कोऽनुमानस्य साक्षी सहकारी। इदमेवाह टीकाकृत तर्कस्येति । तथा च तर्कस्येदमेव प्रयोजनम् ।
विपर्ययेति विपर्ययो नाम अभावः । "कस्याभावः ? तर्कविषयीभूताभावस्य साध्याभावस्य यो विपर्ययोऽभावः । यथा निर्वह्निः स्यात् तर्हि निर्धूमः स्यादित्यत्र विपर्ययो निर्धूमः । तस्य पर्यवसन्नं धूमलक्षणम् । यथा भवति चायं धूमवानिति, तस्माद् वह्निमानिति साध्यं साधयति-इति तर्कस्य
१. B omits लक्षणा. २. B वढेरभावः. ३. B omits भवति. ४. B omits कस्याभावः.
तर्क.-३१
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org