________________
तर्कतरङ्गिणी
२३९ व्याप्तिः । एवं निगमनैकदेशेऽतिव्याप्तिः । निगमनं भवति सम्पूर्ण वह्निव्याप्यधूमत्वाद्वह्निमानितिरूपम्। तस्याप्येकदेशो भवति वह्निमानितिरूपस्तत्राप्यतिव्याप्तिः, तस्यापि न्यायान्तर्गतत्वादित्यर्थः ।
प्रतिज्ञायाः निष्कृष्टं लक्षणमाह-हेत्वभिधानेति हेतो र्यदभिधानं-वचनं तस्य प्रयोगिका जनिका या जिज्ञासा ज्ञानविषयिणी इच्छा 'तज्जनकं जिज्ञासाजनकं यज्ज्ञानम् तस्य जनकत्वे सति न्यायावयवत्वं प्रतिज्ञात्वम् । यथा हेतो—मादिति हेतोर्यदभिधानं तस्य प्रयोजिका या जिज्ञासा धूमज्ञानविषयिणी इच्छा तज्जनकीभूतं यज्ज्ञानं वह्निज्ञानं तज्जनकं यद्वाक्यं वह्निमानितिरूपम्, तत्त्वे सति न्यायावयवत्त्वम् ।
तथा च सत्यन्तं ग्रहणोदाहरणैकदेशे निगमनैकदेशे च नातिव्याप्तिः । न्यायावयवपदं च न्यायबहिःस्थे वातुलवाक्ये वह्निमानितिरूपेऽतिव्याप्तिवारणार्थम् । (३) हेतुः ॥
निगमनैकदेशेति । तस्माद्वह्निव्याप्यधूमत्त्वाद् वह्निनमानिति निगमनं भवति सम्पूर्णम् । तस्याप्येकदेशो भवति धूमादिति पञ्चम्यन्तः, तत्रातिव्याप्तिरित्यर्थः ।
समाधत्ते-व्याप्त्यभिधानेति तथा च व्याप्तेर्यदभिधानमुदाहरणरूपम्, यो यो धूमवान सः वह्निमानित्येव व्याप्त्याभिधानम्, तस्य या जिज्ञासा ज्ञानविषयिणी इच्छा, तज्जन्यं यज्ज्ञानं धूमादितिवाक्यार्थज्ञानम्, तज्जनकीभूतो योऽवयवो धूमादिरूपस्तत्त्वे सति न्यायावयवत्वं हेतुत्वमित्यर्थः । सत्यन्तपददाने च निगमनैकदेशे नातिव्याप्तिः । तस्य व्याप्त्यभिधानजनकज्ञानजनकत्वाभावात् । व्याप्तिज्ञानं च पूर्वमुदाहरणेनैव जातम् । सिद्ध ज्ञानविषयेच्छाभावात् । न्यायावयवपदं च न्यायबहि:स्थे तटस्थवाक्ये धूमादित्याकारेऽतिव्याप्तिवारणार्थम्। (४) उदाहरणम् ।
सव्याप्तिकमिति तथा च येन वाक्येन व्याप्ति दृश्यते तदेवोदाहरणम् । यथा यो यो धूमवान् सोऽग्निमानिति वीप्साबलात् धूमनिष्ठा वह्निनिरूपिता व्याप्तिरनेन वाक्येन प्रदर्श्यते इति । उदाहरणस्यैवेदं लक्षणम् । यदि महानस-इत्यादि कल्प्यते तदाऽऽशङ्कानिवारणम् । अत्र शङ्कते न चेति । तथा च दृष्टान्तवचनं सामयिकं भवति । कदाचित्तस्य प्रयोगो क्रियते, कदाचिन्न क्रियते इति । यदा तु क्रियते तदोदाहरणवचनत्वं तस्य वाक्यस्य तिष्ठति । यदा तु न क्रियते तदा तद्वत्त्वमुदाहरणस्य नास्तीत्यव्याप्तिः ।
__ अव्याप्तिवारणार्थमुदाहरणस्य लक्षणान्तरं करोति पक्षधर्मत्वेति तथा च धर्मतायाः यदभिधानं "वाक्यप्रयोगः, यथा वह्निव्याप्यधूमवानितिरूपस्तस्य जनकीभूता या जिज्ञासा, तज्ज्ञानविषयिणी इच्छा, १. A omits the reading between तज्जनकं..........इच्छा. २. B -स्येदं. ३. B यथा. ४. B क्रियते. ५. B -प्रयोगत्वम्.
___ Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org