________________
. २३०
द्वितीयं परिशिष्टम् प्रकर्षाप्र(प)कर्षदर्शनात् तदनुमानम् ।५। यथा तोयादजाक्षीर-घृते प्रकृष्टस्नेहे, ततः प्रकृष्टस्नेहे गोक्षीरघृते, ततश्चाधिकस्नेहे महिषीक्षीर-घृते, ततोऽप्युत्कृष्टस्नेहे उष्ट्रीक्षीर-घृते । पाशुभ्यः प्रकृष्टरूक्षगुणाः तुषकणिकादयः, ततोऽपि प्रकृष्टरूक्षाः शर्कराः । तथा परमाणुष्वपि प्रकर्षाप्र(प)कर्षवृत्त्या स्निग्धरूक्षाः गुणाः सन्तीत्यनुमानं क्रियते ।” इति तत्त्वार्थराजवार्तिके ५।३३, पृ.४९८।।
“ननु च जघन्यगुणाः परमाणवः सन्तीति कुतो निश्चयः ? स्निग्ध-रूक्षगुणयोरपकर्षातिशयदर्शनात् परमापकर्षस्य सिद्धेर्जघन्यगुणसिद्धिः । उष्ट्रीक्षीराद्धि महिषीक्षीरस्यापकृष्टः स्नेहगुणः प्रतीयते, ततो गोक्षीरस्य, ततोऽप्यजाक्षीरस्य, ततोऽपि तोयस्येति । तथा रूक्षगुणोऽपि शर्करातः कणिकानामपकृष्टः प्रतीयते, ततोऽपि पांशूनामिति ।” इति तत्त्वार्थश्लोकवार्तिके ५।३४ पृ.४३६ ॥
पृ.१३३ पं.९ । कम्पनं कम्पो देशाद् देशान्तरप्राप्तिहेतुः पर्यायविशेषः... । तुलना"उभयनिमित्तापेक्षः पर्यायविशेषो द्रव्यस्य देशान्तरप्राप्तिहेतुः क्रिया, न पुनः पदार्थान्तरं तथाऽप्रतीयमानत्वात्, गुण-सामान्य-विशेष-समवायवत् ।
ननु क्रिया द्रव्यात् पदार्थान्तरम्, तद्भिन्नलक्षणत्वाद्, गुणादिवदिति पदार्थान्तरत्वेनाप्रतीयमानत्वमसिद्धमिति चेत्, कथञ्चिद्भिन्नलक्षणत्वस्य द्रव्यव्यक्तिभिरनेकान्तात् । कालादिद्रव्यव्यक्तीनां न द्रव्याद् भिन्नलक्षणत्वं क्रियावद् गुणवत् समवायिकारणम्' [वै.सू.] इति द्रव्यलक्षणस्य तत्र भावादिति चेत्, न, कालादिषु क्रियावत्त्ववर्जितस्य द्रव्यलक्षणस्योपगमात् पृथिव्यादिषु तदवर्जितस्य तस्य व्याख्यानात् कथंचित् तेषां द्रव्यलक्षणभेदसिद्धेः । पदार्थान्तरत्वे तु द्रव्यव्यक्तीनां गुणादिव्यक्तीनामपि पदार्थान्तरत्वप्रसक्तेः कुतः षट्पदार्थनियमः ।
द्रव्यत्वप्रतीतिमात्रं द्रव्यलक्षणं सकलद्रव्यव्यक्तीनामभिन्नम्, तस्य कर्मणि मनागप्यभावात् सर्वथा तद्भिन्नलक्षणत्वं हेतुरिति चेत्, प्रतिवाद्यसिद्धः, सद्रव्यलक्षणमिति कर्मण्यपि द्रव्यप्रत्ययमात्रस्य द्रव्यलक्षणस्य भावाद्, अन्यथा तदसत्त्वप्रसङ्गात् । न हि सत्तामहासामान्यमेव द्रव्यमिति स्याद्वादिनां दर्शनम्, तस्याः शुद्धद्रव्यत्वोपगमात् । 'गुण-पर्ययवद् द्रव्यम्' इत्यशुद्धद्रव्यलक्षणस्य कर्मण्यभावेऽपि कथंचिदेकद्रव्याद्] भिन्नलक्षणत्वं तस्य सिध्येत्, न सर्वथा, तच्च कथंचित्पदार्थान्तरत्वं साधयेदिति विरुद्धसाधनाद् विरुद्धम्, परैः सर्वथा पदार्थान्तरत्वस्य तत्र साध्यत्वात् । कर्म सर्वथा न द्रव्यात् पदार्थान्तरम्, कथंचित् तद्भिन्नलक्षणत्वात्, गुणादिवदिति परमतसिद्धेः । न चात्र कर्माप्रतिपन्नं येनाश्रयासिद्धिः साधनस्य । नापि सर्वथा पदार्थान्तरत्वेन द्रव्यात् प्रतिपनं कुतश्चित् प्रमाणात् स्याद्वादिभिः येन धर्मिग्राहकप्रमाणबाधा, तस्य कथंचित् पदार्थान्तरत्वेनैव प्रतिपन्नत्वात् । न चैवं सिद्धान्तविरोधः, कर्मणः पर्यायत्वेन द्रव्यात् कथंचित् पदार्थान्तरत्वव्यवस्थितेः, उत्पादविनाशत्वलक्षणस्य ध्रौव्याद् द्रव्यलक्षणाद् भेदसिद्धेः कर्म-गुण-सामान्य-विशेष-समवायानां पर्यायलक्षणसद्भावात् पर्यायपदार्थत्ववचनात्, अन्यथाऽतिप्रसक्तेः, प्रागभावादीनां विशेषण-विशेष्यभावादीनां - च पदार्थान्तरत्वप्रसङ्गात् । पदार्थशेषत्वकल्पनायामेकेनैव पदार्थेन पर्याप्तत्वादन्येषां च पदार्थशेषावस्थिते [?]
सूत्रेऽवधारणाभावादित्युक्तप्रायम् । सामान्य-समवायौ कथं पर्यायौ नित्यत्वात् ? इति चेत्, न, तयोरपि गुण-कर्म-विशेषवदनित्यत्वोपगमात् । सदृशपरिणामो हि सामान्यं स्याद्वादिनाम्, अविष्वग्भावश्च द्रव्यपर्याययोः समवायः । स चोत्पादविनाशवानेव, सदृशव्यक्त्युत्पादे सादृश्योत्पादप्रतीतेः, तद्विनाशे च तद्विनाशमात्रभावात (तद्विनाशस्यानुभवात्) । सादृश्यस्य व्यक्त्यन्तरेषु दर्शनाद् नित्यत्वमिति चेत्, न, वैसदृश्यस्य गुणस्य कर्मणश्चैवं नित्यत्वप्रसङ्गात् । नष्टोत्पन्नव्यक्तिभ्यो व्यक्त्यन्तरेषु न तदेव वैसदृश्यादि दृश्यते, ततोऽन्यस्यैव
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org