SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १६६ श्रीवीतरागस्तवे विंशतितमः प्रकाश: गन्धोऽपीत्येवकारेण सूच्यते । एवञ्च त्वदाज्ञापालनेन प्रसादनादैन्यादिकं विनैवेष्टसिद्धेर्महत्सौकर्यमिति तदेवैकं कर्तव्यम् , अलं प्रसादनादैन्यादिमहाकष्टोपायपूर्वकपरेष्टदेवाद्याज्ञापालनेन निष्फलेनाऽनर्थकरेण चेति भावः ॥८॥ . इति श्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तवकीर्तिकलाख्यायां व्याख्यायामेकोनविंशतितमः प्रकाशः ॥१९॥ विंशतितमः प्रकाशः नन्वेवं भक्तिभरमनसा निपुणं स्तुवतः किमिष्टमित्यपेक्षायां नवभिः पद्यैः स्वेष्टमाशासानः स्तुतिमुपसंहरति-- पादपीठलुठन्मूर्ध्नि मयि पादरजस्तव । चिरं निविशतां पुण्यपरमाणुकणोपमम् ॥१॥ पादेति-भगवन् !, तव वीतरागस्य भवतः, पुण्यपरमाणुकणोपमम्=पुण्यं तदाख्यं यच्छुभकर्म, तदात्मानो ये परमाणुरूपाः कणाः पुद्गलविशेषाः, तैरुपमीयत इति तत् , पुण्यपु. दूलतुल्यम् । कर्मणः पौगलिकत्वात्पुद्गलस्य चाऽणुस्कन्धभेदभिन्नत्वादिति भावः । परमाणोर्निरवयवत्वाद्रजसश्च सावयवत्वात्सूक्ष्मत्वसाधर्म्यात्कथञ्चिदुपमा ज्ञेया । एतेन सर्वोत्तमसुकृतस्य पादरजोऽपि स्पर्शमणिन्यायेन पुण्यमिति तस्य स्पृहणीयत्वे वाचोयुक्तिः प्रदर्शिता । किन्तदित्यपेक्षायामाह-पादरजा-पादस्य चरणस्य रजो धूलिस्तत् । Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy