SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १६४ श्रीवीतरागस्तवे एकोनविंशतितमः प्रकाशः 1 आश्रवसंवराभ्यां भिन्नमङ्गोपाङ्गादि, तत्, अस्याः = उक्तरूपाया मुष्टेः प्रपञ्चनम् = बोधसौकर्यायाङ्गोपाङ्गादिसमायोगेन विस्तारणम् । एवञ्चाऽङ्गोपाङ्गादिकमाश्रवसंवरयोरेव विस्तृतं व्याख्यानमेव । नत्वतोन्यत्किञ्चित्प्रतिपादितमिति भावः ॥ ६॥ नाज्ञाऽऽराद्धा शिवायेत्येतावता कोऽपि प्रवर्तेतेत्याज्ञाराधन प्राप्तफलानाह इत्याज्ञाराधनपरा अनन्ताः परिनिर्वृताः । निर्वान्ति चान्ये क्वचन निर्वास्यन्ति तथाऽपरे ||७|| इत्याज्ञेति - इत्याज्ञाराधनपराः = इत्युक्तप्रकाराया आश्रवत्यागस्वरोपादानविषयिण्या आज्ञाया उपदेशस्याऽऽराधने पालने परास्तत्पराः, प्राणिन इति विशेष्यमाक्षिप्यते । अनन्ताः, नतु परिमिता असङ्ख्याता एव वा, जिनाज्ञाया आकालत्वात्कालस्य चानाद्यनन्तत्वात्काले काले निर्वृतानामनन्तानामेव सम्भवस्याssसवाक्यादिना निर्णयादिति भावः । परिनिर्वृताः = निर्वृतिं गताः, मुक्ता इत्यर्थः । न भूतकाल एव, किन्तु, क्वचन = कुत्रापि विशिष्टे महाविदेहादौ क्षेत्रे, अन्ये = कति, अनन्ता इति यावत् । इत्याज्ञाराधनपरा इति विशेष्यं सम्बध्यते । निर्वान्ति = मुक्तिं गच्छन्ति, चः समुच्चये । एवञ्चेह क्षेत्रे साम्प्रतं न निर्वान्तीति भूतकालेऽपि तत्राऽनास्थेति न वाच्यमिति भावः । भूतवर्त्तमानयोस्तदाज्ञायाः फलवत्वनिश्चये च भविष्यत्यपि तस्यास्तत्त्वं यौक्तिकमेवेत्याह Jain Education International 2010_dor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy