________________
(10)*
कीर्तिकलाभ्याख्याविभूषितः
१५३
-
-
जना गर्हणीयं निन्दनीयं यच्चरितं ब्रह्मशिरःकर्तनस्वसुतारिरंसादिरूपः कदाचारस्तेन कृत्वा प्रकम्पिता अत्यनुचितत्वारखेदाधिक्यादनाचारप्रसारभयाच्च सकम्पाः कृता महाजनाः सजना येन स तादृशः । भयानकानुचितप्रवृत्त इत्यर्थः । पुराणादौ हि शिवस्य ब्रह्मपञ्चमशिरःकर्तनं ब्रह्मणःस्वसुतारिरंसादि च वर्णितमनुसन्धेयम् । न, । तथा, प्रकोपप्रसादविडम्बितनरामरः= प्रकोपेन प्रसादेन, आदिना छलादिना च कृत्वा विडम्बिता अवधीरिताः सम्मानिताश्च नरा अमराश्च येन, तादृशः, रागवत्त्वात्कोपप्रसादादिमानित्यर्थः । शिवेन हि प्रकोपेन भुवनत्रयं संहतुं प्रववृते, प्रसादेन विषपानादिना जगद्रक्षितम् , एवमादीन्यन्यान्यपि पुराणादितोऽनुसन्धेयानि । न । लोकोत्तरसम्यक्चारित्रवतो वीतरागस्य भवतस्तन्न्यूनता । सा चानुरूपा लोकव्यवहारऽनुगुणा च वीतरागत्वादेवेति तादृशी न्यूनतोत्कृष्टतैवेति सारार्थः ॥ ४ ॥
वैशिष्ट्यान्तराऽभावमप्याहन जगजननस्थेमविनाशविहितादरः । न लास्यहास्यगीतादिविप्लवोपप्लुतस्थितिः ॥५॥
नेति-भगवन् !, भवान् , जगजननस्थेमविनाशविहिताद: जगतः सृष्टेर्जनने सर्जने स्थेमनि स्थिरतायाम् , पालन इति यावत् । विनाशे च विहितः सम्प्रवृत्त आदर आग्रहो यस्य स तादृशः, न । ब्रह्मा हि रजोगुणाश्रयात्सृजति, विष्णुः सत्त्व
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org