________________
एकत्रिंशत्तमं चरणविधिनामकमध्ययनम्
४७३ आउट्टिमूलकंदे, पुण्फे य फले य बीय हरिए य । भुंजते सबले ऊ १८, तहेव संवस्सरस्संते ॥८॥ दस दगेलेवे कुव्वं १९, तह माइट्ठाण दस य वरिसंते २० । आउट्टिय सीओदग-वग्घारियहत्थमत्ते य ॥९॥ दव्वीए भायणेण व, दिज्जंतं भत्तपाण घेत्तूणं ।
भुंजइ सबलो एसो, इगवीसो होइ नायव्वो २१ ॥१०॥ [ आ.नि.सं.गा.] द्वाविंशतिपरीषहाश्चेत्थं
खुहा पिवासा सीईएहं, साचलाइथिओ । चरिया निसिहीया सज्जा, अक्कोस वह जायणा ॥१॥ अलाभरौगतणफासा, मलसक्कार पुरस्कार )परीसहा ।
पन्ना अन्नाणसम्मत्तं, इइ बावीस परीसहा ॥२॥ [ आ.नि.सं.गा.] एवंविधेषु द्वाविंशतिपरीषहेषु परीषहाध्ययनोक्तेषु यो भिक्षुर्यतते उत्पन्नान् नित्यं सहते स संसारे न भ्राम्यति ॥१५॥
तेवीसइ सूयकडे, रूवाहिए सुरेसु य ।
जे भिक्खू जयई निच्चं, से ण अच्छइ मंडले ॥१६॥ व्याख्या-त्रिभिरधिका विंशतिस्त्रयोविंशतिः, एवंविधानि सूत्रकृताध्ययानानि, तानि पुण्डरीकादीनि सप्त, षोडश च समयादीनि । यथा
पंडरियकिरियाणं, आहारपरिणबच्चक्खाणकिरिया य ।
अणगारअद्दनालिंद, सोलसाइं च तेवीसं ॥१॥ [ आ.नि.सं.गा.] तेषु, तथा रूपमेकस्तेनाधिकाः, सूत्रकृताऽध्ययनेभ्यो रूपाधिकाश्चतुर्विंशतिस्तेषु सुरेषु देवेषु, तत्र दीव्यन्ति क्रीडन्तीति देवा भवनपत्याद्यास्तेषु, यदि वा दीव्यन्ते स्तूयन्ते जगत्त्रयेणापीति देवा अर्हन्तस्तेषु ऋषभायेषु । उक्तं च
भर्वणवणजोइवेमाणिया य, दस अट्ठपंचएगविहा ।
इइ चउवीसं देवा, केइ पुण बिंति अरहंता ॥१॥[आ.नि.सं.गा.] तेषु यो भिक्षुर्यतते सत्प्ररूपणादिना स संसारे न भ्राम्यति ॥१६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org