________________
३०६
श्रीउत्तराध्ययनदीपिकाटीका-१ सर्वस्थानप्रधानां जन्माद्यभावात् । किं कृत्वा ? एवममुना प्रकारेण ज्ञानेन मतिश्रुतादिकेन, चरणेन यथाख्यातेन, दर्शनेन शुद्धश्रद्धारूपेण, तपसा द्वादशविधेन, भावनाभिर्महाव्रतसम्बन्धिनीभिरथवाऽनित्यत्वादिविषयाभिः शुद्धाभिर्निर्निदानादिभिरात्मानं सम्यक् प्रकारेण भावयित्वा बहूनि च वर्षाणि यावत् श्रामण्यं यतिधर्ममनुपाल्याऽाराध्येति ॥९५।।९६।।
अथ सकलाध्ययनार्थमुपसंहरन्नुपदिशतिएवं करंति संबुद्धा, पंडिया पवियक्खणा । विणियटुंति भोगेसु, मियापुत्ते जहा मिसी ॥१७॥
व्याख्या-सम्बुद्धाः सम्यग् ज्ञाततत्वाः पुरुषाः, पण्डिता हेयोपादेयबुद्धिसमन्विताः, अत एव प्रकर्षेण विचक्षणा अवसरज्ञा एवं कुर्वन्ति, भोगेभ्यो विशेषेण निवर्तन्ते, क इव? यथा मृगापुत्रर्षिः, मः अलाक्षणिकः ॥९७।।
पुनर्भङ्ग्यन्तरेणोपदिशतिमहप्पभावस्स महाजसस्स, मियाएपुत्तस्स निसम्म भासियं । तवप्पहाणं चरियं च उत्तम, गइप्पहाणं च तिलोयविस्सुयं ॥१८॥
व्याख्या-महाप्रभावस्य रोगाद्यभावेन महायशसः प्रतिज्ञाया निर्वाहेन, एवंविधस्य मृगापुत्रस्य भाषितं संसाराऽनित्यतोपदेशात्मकं वचनवृन्द, च पुनस्तपःप्रधानं तपोभिरुत्कृष्टं, उत्तमं गुणगणैरलङ्कृतम् , गतिप्रधानं मोक्षरूपगत्या प्रधानं, च पुनस्त्रिलोकविश्रुतं त्रिलोकप्रसिद्धं, एवंविधं चरित्रं वृत्तान्तं निशम्य ॥९८॥
फललिप्सवो हि प्रेक्षावन्तः प्रवर्त्तन्ते, इति धनममताधर्मफलमाहवियाणिया दुक्खविवडणं धणं, ममत्तबंधं च महाभयावहं । सुहावहं धम्मधुरं अणुत्तरं, धारेह निव्वाणगुणावहं महं ॥१९॥ त्ति बेमि
व्याख्या-धनं दुःखविवर्द्धनं विज्ञाय, तथा ममत्वबन्धं महाभयावहं ज्ञात्वा, यतस्तत एव चौरादिमहाभयावाप्तिर्जायते । निर्वाणगुणा अनन्तज्ञानदर्शनवीर्यसुखादयस्तदावहां तत्प्राप्तिकां सुखावहां चानुत्तरां प्रधानां धर्मधुरां धारयत ! इह निर्वाणगुणावहत्वं सुखावहत्वे हेतुः । 'महं'ति अमितमाहात्म्यतया महतीं, इति समाप्तौ ब्रवीमीति प्राग्वत् ॥९९॥
इति निःप्रतिकर्मत्वे एकोनविंशं मृगापुत्रीयाध्ययनमुक्तम् ॥१९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org