________________
३०१
एकोनविंशं मृगापुत्रीयाध्ययनम्
सव्वभवेसु असाया-वेयणा वेड्या मए ।
निमिसंतरमित्तं पि, जं साया नत्थि वेयणा ॥७५॥ व्याख्या हे पितस्तथैव सर्वभवेष्वसातावेदना वेदिता मया, निमेषस्यान्तरं, यावता कालेनासौ निमेषो भूत्वा पुनर्भवति तन्मात्रमपि कालं यद्यस्मात् साता [वेदना] नास्ति । वैषयिकसुखस्यापि ईर्ष्याद्यनेकदुःखानुबद्धत्वेन विपाकदारुणत्वेन चाऽसुखत्वात् । सर्वस्यास्य गाथावृन्दस्यायमाशयो, येन मयैवं दुःखान्यनुभूतानि सोऽहं कथं सुखोचितः सुकुमारो वेति ? कथं वास्य दुष्करा दीक्षा ? अतो ग्राह्मैव मया ॥७५॥
__ तं बिंतम्मापियरो, छंदेण पुत्त पव्वया ।
नवरं पुण सामन्ने, दुक्खं नि:पडिकम्मया ॥७६॥ व्याख्या-अथ पितरौ [तं] मृगापुत्रं ब्रूतः, हे ! पुत्र छंदसा स्वीयेनाभिप्रायेण, यदि तवेच्छा तदा प्रव्रज ! नवरं परमयं विशेषोऽस्ति, पुनः श्रामण्ये चारित्रे एतद् दुःखं वर्त्तते, यद् निःप्रतिकर्मतास्ति, रोगोत्पत्तौ प्रतीकारो न विधेयः, अर्थात् सावधवैद्यकं न कारयितव्यमिति ॥७६॥
सो बिंतम्मापियरं, एवमेयं जहा फुडं।
पडिकम्मं को कुणई, अरण्णे मियपक्खिणं ॥७७॥ व्याख्या-ततोऽनन्तरं मातापितरौ प्रति स मृगापुत्रकुमारो ब्रूते, एतद्भवद्भ्यामुक्तमेवं यथास्फुटमवितथं, भवदुक्तं सत्यमित्यर्थः, परं हे पितरौ ! अरण्ये मृगाणां पक्षिणां च कः परिकर्मणां चिकित्सां कुरुते ? न कोऽपीत्यर्थः, तेऽपि च जीवन्ति चरन्ति च, ततः किमस्या दीक्षायाः दुष्करत्वम् ? ॥७७॥
एगभूओ अरण्णे वा, जहा उ चरई मिए ।
एवं धम्मं चरिस्सामि, संजमेण तवेण य ॥७८॥ व्याख्या-एकभूत एकत्वं प्राप्तोऽरण्ये, वा पूर्ती, 'जहा उ' यथैव चरति मृगः एवमित्येकभूतोऽहमपि संयमेन तपसा धर्मं श्रीवीतरागप्रणीतं चरिष्यामीति ॥७८॥
जया मियस्स आयंको, महरण्णंमि जायइ ।
अच्छंतं रुक्खमूलंमि, को णं ताहे तिगिच्छड् ॥७९॥ व्याख्या-यदा मृगस्यातङ्क आशुघाती रोगो महारण्ये जायते तदा शुष्कवृक्षमूले
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org