SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ २९७ एकोनविंशं मृगापुत्रीयाध्ययनम् भिन्नो विदारितः च पुनर्विभिन्नो विशेषेण सूक्ष्मखण्डीकृतः, कथम्भूतैरसिभिरतसीकुसुमवर्णैः श्यामवर्णैरित्यर्थः ॥५६॥ अवसो लोहरहे जुत्ते, जलंते समिलाजुए । चोइओ तोत्तजुत्तेहिं, रोज्झो वा जह पाडिओ ॥५७॥ व्याख्या हे पितरौ ! पुनरहं नरके लोहरथेऽवशः परवशः सन् परमाधार्मिकदेवैवलति अग्निना जाज्वल्यमानेन समिलायुगे युक्तो योत्रितः, समिला युगरन्ध्र क्षेपणीयकीलिका, युगस्तु जूसरः, उभयोरपि वह्निना प्रदीप्तत्वं कथितं, तत्राग्निना ज्वलमाने रथेऽहं योत्रितः, तोत्रयोक्त्रैर्नोदितः प्रेरितः, तोत्राणि प्राजनकानि पुराणकादीनि, योक्त्राणि नासाप्रोतबद्धरज्जुबन्धनानि, तैः प्रेरितः, पुनरहं 'रोज्झो वा' इति गवयाख्यपशुविशेष इव पातितः, यष्टिमुष्ट्यादिना हत्वा पातितः, वाशब्दः पादपूरणे, यथा शब्द इवार्थे ।।५७।। हुयासणे जलंतंमि, चियासु महिसो विव । दड्डो पक्को अवसो, पावकम्मेहि पावओ ॥५८॥ व्याख्या हे पितरौ ! पापकर्मभिरहं प्रावृतो वेष्टितः सन् ज्वलति हुताशने जाज्वल्यमानेऽग्नौ दग्धो भस्मसात् कृतः, पुनरहं पक्वो वृन्ताकादिवद्भटित्रीकृतः, कीदृशोऽहं? अवशः परवशश्चितासु अग्निषु महिष इव, यथात्र महापापिजना महिषं बद्ध्वाऽग्नौ प्रज्वाल्य भटित्रीकुर्वन्ति, तथा तत्राहं परमाधार्मिकैर्देवैविकुर्विताग्नौ दग्धः पक्वश्च ॥५८॥ बला संडासतुंडेहिं, लोहतुंडेहिं पक्खिहिं । विलुत्तो विलवंतोऽहं, ढंकगिद्धेहि अणंतसो ॥५९॥ व्याख्या-हे पितरौ ! अहमनन्तशो बहुवारं ढङ्कगृधेस्तन्नामविकुर्वितपक्षिभिर्बलाद्विलुप्तो विविधप्रकारेण छिन्नोऽहं नासानेत्रान्त्रकालेयादिषु चुण्टित इत्यर्थः, कथं भूतैस्तैः ? संदंशाकारं तुण्डं येषां ते संदंशतुण्डास्तैः, पुनर्लोहन्तुण्डैर्लोहवत्कठोरमुखैः, किं कुर्यन्नहं विलपन् विलापं कुर्वन्नित्यर्थः ॥५९॥ तण्हाकिलंतो धावंतो, पत्तो वेतरणिं नइं। जलं पाहं ति चिंतंतो, खुरधाराहिं विवाईओ ॥६०॥ व्याख्या हे पितरौ ! पुनरहं तृषाक्रान्तो धावन् वैतरणी प्राप्तः सन् , जलं Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy